Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकं सत्तापक्षकमनुमानम्

§60Mūla
सत्ता द्रव्यत्वान्यात्मनिष्ठजात्यन्या जातित्वात्, प्रमेयत्वाद्वा घटत्ववत् ।
सत्तेति ॥ अत्र दृष्टान्ते सत्तान्यत्वमादाय पक्षे चात्मत्वान्यत्वमादाय साध्यसत्त्वं द्रष्टव्यम् । द्रव्यत्वपृथिवीत्वादिभेदमादाय सिद्धसाधनवारणाय द्रव्यत्वान्यत्वात्मनिष्ठत्वयोः जातौ, जातेश्च गुणभेदमादाय तद्दोषनिरासाय निवेशः । यद्यप्यात्मत्वसिद्धेः प्रागात्मनिष्ठत्वस्य निवेशासम्भवः । जातिं विना व्यक्तिभानायोगात् । तथापि तद्व्यक्तित्वेनाष्टद्रव्यान्यद्रव्यत्वेन वा तन्निवेशान्न दोषः । न चैवमप्यात्मपृथिव्युभयानुगतजात्यन्तरसिद्ध्याऽर्थान्तरमिति वाच्यम् । तस्य विनिगमनाविरहेण यावद्द्रव्यवृत्तित्वे तुल्यव्यक्तिकतया द्रव्यत्वानतिरेकात् ।

Loading…