Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वस्य जातित्वसाधकं पृथिवीपक्षकमनुमानम्

§59Mūla
सर्वा पृथिवी जलतेजोवायुमनस्त्वानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्ता द्रव्यत्वात्, सत्ताधिकरणत्वाद्वा जलवत् ।
सर्वा पृथिवीति ॥ जलतेजोवायुमनसां त्वप्रत्ययेनान्वयः । अन्यत्पूर्ववत् । अनयैव रीत्या प्रत्येकं जलादिपक्षकानुमानान्यूह्यानि । एवं पृथिव्यादिद्रव्याणि आत्मवृत्तिजातिमद्व्यतिरिक्तानि अनात्मत्वात् गुणादिवदित्यनुमानं बोध्यम् ॥

Loading…