Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

मनःपक्षकानुमाने साध्यघटकपदकृत्यचिन्तनम्

§58Mūla
सर्वाणि मनांसि स्पर्शानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तानि द्रव्यत्वात् सत्ताधिकरणत्वात् प्रमेयत्वाद्वा पृथिवीवत् । दिग्भेदवादिनां त्वत्र दिक्त्वानधिकरणत्वग्रहणं कार्यम् ॥
पृथिव्यादिव्यतिरिक्तत्वमादाय सिद्धसाधनवारणाय स्पर्शानधिकरणेति । जातिगुणादिव्यतिरिक्तत्वेन सिद्धार्थतानिरासाय द्रव्यत्वव्याप्यजातिमदिति । मनस्त्वावान्तरचित्तत्वादिजातिमद्व्यतिरिक्तत्वमादाय तद्दोषभङ्गाय साक्षात्पदम् । एतत्सूचनार्थं सर्वाणि मनांसीत्युक्तम् । चित्तादिभेदेन नानाजातीयानीत्यर्थः । तेन 'मनस्त्वावान्तरजातेरप्रामाणिकत्वात् साक्षात्पदवैयर्थ्यम्' इति शङ्कानवकाशः । यद्यप्यत्राऽत्मपृथिव्यादिसाधारणजात्यन्तरसिद्ध्याऽर्थान्तरसम्भवः । तथापि स्पर्शानधिकरणेत्यनेन स्पर्शासमानाधिकरणत्वस्य जातौ विवक्षितत्वान्न दोषः । पृथिवीत्वादिकं द्रव्यत्वसाक्षाद्व्याप्यं, द्रव्यविभाजकजातित्वात् मनस्त्ववदित्यनुमानविरोधेन तादृशजात्यन्तरासिद्धेश्च । आत्माकाशादिमात्रसाधारणजात्यन्तरसिद्धिस्तु प्रागेव दूषितेति ॥ नन्वेवमपि स्वाभाविकदिग्भेदवादिनां मते दिक्त्वजातिमद्व्यतिरिक्तत्वमादाय सिद्धसाधनमत आह- दिग्भेदवादिनामिति ॥ अत्र द्रव्यपक्षकानुमाने । उपलक्षणमेतत् । द्रव्यत्वादिपक्षकोक्तानुमानेष्वपि दिक्त्वेतरत्वग्रहणं कार्यम् ॥

Loading…