Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकं मनःपक्षकानुमानम्

§57Mūla
सर्वाणि मनांसि स्पर्शानधिकरणद्रव्यत्वसाक्षाद्व्याप्यजातिमद्व्यतिरिक्तानि द्रव्यत्वात् सत्ताधिकरणत्वात् प्रमेयत्वाद्वा पृथिवीवत् । दिग्भेदवादिनां त्वत्र दिक्त्वानधिकरणत्वग्रहणं कार्यम् ॥
सर्वाणि मनांसीति ॥ दृष्टान्ते मनस्त्वजातिमद्व्यतिरिक्तत्वेन पक्षे चात्मत्वजातिमद्व्यतिरिक्तत्वेन साध्यपर्यवसानं बोध्यम् । अत्र यत्किञ्चिन्मनसः पक्षत्वे मनोऽन्तरव्यतिरिक्तत्वमादाय सिद्धसाधनात् सर्वाणीत्युक्तमिति केचित् । तच्चिन्त्यम् । सर्वेषामपि मनसां चालिनीन्यायेन तादृशजातिमन्मनःप्रतियोगिकभेदवत्त्वेन सर्वपदोपादानेऽपि सिद्धसाधनानुद्धारात् । तादृशजात्यवच्छिन्नप्रतियोगिताकभेदवत्त्वस्य साध्यार्थत्वे च सर्वपदवैयर्थ्यात् । न च तादृशजातिमत्प्रतियोगिकयत्किञ्चिदेकभेदस्य साध्यत्वान्न दोषः । एकमनोभेदस्य सर्वमनस्स्वभावादिति वाच्यम् । तादृशभेदप्रतियोगिन्यनैकान्त्यात् । साध्ये साक्षात्पदवैयर्थ्यप्रसङ्गाच्च । मनस्त्वावान्तरजातिमत्प्रतियोगिकैकभेदस्य सर्वमनस्स्वभावादेव सिद्धसाधनानवकाशात् ॥ यत्तु द्रव्यत्वव्याप्यद्रव्यत्ववद्गगनादिभेदमादाय सिद्धसाधनवारणाय साक्षात्पदम् । द्रव्यत्वस्य च द्रव्यत्वव्याप्याव्याप्यत्वाभावान्न दोष इति । तन्न । द्रव्यत्वसाधारणद्रव्यत्वव्याप्यत्वविवक्षायां द्रव्यत्वव्याप्याव्याप्यत्वे सति द्रव्यत्वव्याप्यजात्यप्रसिद्ध्या साध्याप्रसिद्धेः । यदप्यात्मत्वस्य द्रव्यत्वसाक्षाद्व्याप्यत्वसिद्ध्यर्थं साक्षात्पदमिति । तदपि न । तत्सिद्धेः प्रकृतानुपयुक्तत्वात् । तस्मात्तादृशजात्यवच्छिन्नप्रतियोगिताकभेद एव साध्यः । सर्वपदं त्ववच्छेदकावच्छेदेन साधनस्यापि साधुत्वज्ञापनार्थम् ॥

Loading…