Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
उपलक्षणतया सिद्धस्यानुमानद्वयस्य विवरणम्
§56Mūla
द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरजातिं प्रति साक्षाद्व्यापकं सत्तासाक्षाद्व्याप्यजातित्वात् गुणत्ववत् ।
एतच्चोपलक्षणम् । द्रव्यत्वं मूर्तावृत्तिजातिमद्वृत्ति, सत्तासाक्षाद्व्याप्यजातित्वाद्मूर्तवृत्तिजातित्वाद्वा गुणत्वादिवत् । द्रव्यत्वमात्मवृत्तिजातिव्यापकम्, आत्मानात्मवृत्तिजातित्वात् सत्तावदित्यादिकमप्यूह्यम् ॥