Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

साक्षाद्व्यापकत्वघटितसाध्यकानुमाने हेतुविचारः

§55Mūla
द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरजातिं प्रति साक्षाद्व्यापकं सत्तासाक्षाद्व्याप्यजातित्वात् गुणत्ववत् ।
हेतौ जातित्वमात्रस्य सत्तायामनैकान्त्यात् सत्ताव्याप्येति । व्याप्यत्वं च पूर्ववन्न्यूनवृत्तित्वरूपं ग्राह्यम् । अतः स्वस्य स्वव्याप्यत्वमादाय न दोषः । घटत्वादौ व्यभिचार- वारणाय साक्षात्पदम् । यद्यपि घटत्वादौ पृथिवीत्वादिभिन्नघटत्वादिसाक्षाद्व्यापकत्वरूपसाध्यसत्त्वान्न व्यभिचारावकाशः । तथापि पृथिवीत्वादिभिन्नद्रव्यत्वव्यापकद्रव्यगुणान्यतरत्वरूपधर्मान्तराव्यापकत्वसिद्ध्याऽर्थान्तरवारणाय तद्व्यापकजात्यव्यापकत्वे सति तद्व्यापकत्वमेव साक्षाद्व्यापकत्वपदेन विवक्षणीयमित्याशयेन तदुपादानात् । अन्यथा तु नोपादेयमेव साक्षात्पदमित्यवधेयम् । गगनावृत्तिधर्मसमवायित्वे व्यभिचारवारणाय जातित्वनिवेशः

Loading…