Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

साक्षाद्व्यापकत्वपरिष्कारः

§54Mūla
द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरजातिं प्रति साक्षाद्व्यापकं सत्तासाक्षाद्व्याप्यजातित्वात् गुणत्ववत् ।
साक्षाद्व्यापकत्वं च तद्व्यापकजात्यव्यापकत्वम् । व्यापकत्वं चाधिकदेशवृत्तित्वम् । तच्च तदवच्छिन्नभेदवद्वृत्तित्वे सति तद्वद्वृत्तित्वम् । पृथिवीत्वादिभिन्नं यद्रूपत्वादि तद्वृत्तिरूपत्वादिकं प्रति तदवच्छिन्नभेदवद्वृत्तिरसत्त्वादिकं प्रति च गुणत्वस्य व्यापकत्वात् दृष्टान्तस्य साध्यवैकल्यापत्तिरतः सत्यन्तविशेष्यदलयोर्निवेशः । तादृशधर्माव्यापकत्वस्य साध्यत्वे गुणत्वस्य विशेषगुणत्वादिरूपतादृशधर्मव्यापकतया साध्यवैकल्यमतस्तादृशजात्यव्यापकत्वमनुसृतम् । न च पृथिवीत्वादिव्यतिरिक्तरूपत्वादिव्यापकगुणत्वाव्यापकत्वस्य द्रव्यत्वे सिद्धत्वात्सिद्धसाधनमिति वाच्यम् । तदव्यापकत्वस्य तदवच्छिन्नभेदवदवृत्तित्वरूपतया तादृशगुणत्वाव्यापकत्वस्य द्रव्यत्वे बाधितत्वात् । न च पृथिवीत्वादिव्यतिरिक्तगुणत्वव्यापकसत्ताजात्यवच्छिन्नभेदवदवृत्तित्वमादाय सिद्धसाधनमिति वाच्यम् । तदवच्छिन्नभेदवदसमवेतत्वस्य विवक्षितत्वात् । सत्ताजात्यवच्छिन्नभेदवत्समवेतत्वस्यैवाप्रसिद्ध्या सिद्धसाधनानवकाशात् । एवं च स्वाधिकरणवृत्तित्वस्वावच्छिन्नभेदवद्वृत्तित्वोभयसम्बन्धेन पृथिवीत्वादिव्यतिरिक्तकिञ्चिज्जातिविशिष्टजात्यवच्छिन्नभेदवदसमवेतत्वं साध्यमिति निष्कर्षः । उभयसम्बन्धप्रवेशात् पृथिवीत्वादिव्यतिरिक्तरूपत्वाद्यवच्छिन्नभेदवद्वृत्तिस्तादृशसत्त्वादिमद्वृत्तिश्च या सत्त्वादिजातिः तद्व्यापकत्वेऽपि गुणत्वरूपदृष्टान्तस्य न साध्यवैकल्यम् । तेन रूपत्वव्यापकगुणत्वं प्रति गुणत्वस्य स्वाधिकरणवृत्त्यभावाप्रतियोगित्वेन व्यापकत्वादव्यापकत्वरूपसाध्यवैकल्यं दृष्टान्तस्येति निरस्तम् । अधिकदेशवृत्तित्वरूपव्यापकत्वस्यैव विवक्षितत्वादिति ॥

Loading…