Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

साक्षाद्व्यापकत्वघटितसाध्यघटकपदकृत्यविचारः

§53Mūla
द्रव्यत्वं पृथिवीत्वजलत्वतेजस्त्ववायुत्वमनस्त्वेतरजातिं प्रति साक्षाद्व्यापकं सत्तासाक्षाद्व्याप्यजातित्वात् गुणत्ववत् ।
द्रव्यत्वस्य पृथिवीत्वादिसाक्षाद्व्यापकतया सिद्धसाधनवारणायेतरान्तम् । अष्टद्रव्यवृत्त्युपाधिव्यापकत्वमादाय तद्दोषवारणाय जातिपदम् । तादृशजातित्वावच्छिन्नव्यापकत्वं जातेर्बाधितमतस्तादृशयत्किञ्चिदेकजातिव्यापकत्वलाभाय समासमुपेक्ष्य जातिं प्रतीत्येकवचनान्तं पृथगुपात्तम् । पृथिवीत्वादिभिन्नघटत्वव्यापकत्वमादाय सिद्धसाधनमतः साक्षात्पदम् ॥

Loading…