'तथात्वे' इति मूलस्य व्याख्यानान्तरम्, तत्खण्डनं च
§91Mūla
दिति चेन्न । त्वयाऽपि घटपटयोरभेदं वदता पटे घट-व्यवहार-प्रसङ्गविरोधपरिहाराय घटपटयोः व्यावहारिकभेदमात्रेण बिम्बप्रतिबिम्बत्वसत्त्वासत्त्वादिव्यवस्थावत्पटे घटत्वात्यन्ताभावस्याङ्गीकार्यत्वात् । घटत्वस्य सर्वत्राविशेषेऽप्यविद्यावशात् प्रतिनियतो व्यवहार इति चेत् । न ह्यविद्याऽऽरोपितरजताभावेऽपि शुक्त्यादौ रजतमिति व्यवहारं जनयति । तथात्वे पटेऽपि तं जनयेदिति ॥