Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

घटपक्षकानुमाने पुनः हेत्वप्रसिद्धिशङ्कापरिहारौ

§90Mūla
दिति चेन्न । त्वयाऽपि घटपटयोरभेदं वदता पटे घट-व्यवहार-प्रसङ्गविरोधपरिहाराय घटपटयोः व्यावहारिकभेदमात्रेण बिम्बप्रतिबिम्बत्वसत्त्वासत्त्वादिव्यवस्थावत्पटे घटत्वात्यन्ताभावस्याङ्गीकार्यत्वात् । घटत्वस्य सर्वत्राविशेषेऽप्यविद्यावशात् प्रतिनियतो व्यवहार इति चेत् । न ह्यविद्याऽऽरोपितरजताभावेऽपि शुक्त्यादौ रजतमिति व्यवहारं जनयति । तथात्वे पटेऽपि तं जनयेदिति ॥
परमते प्रतियोगिसमानाधिकरण्यावच्छेदकानवच्छिन्नाभावाप्रसिद्धिरित्याशङ्कते - ननु तर्हीति ॥ घटपटयोरभेदं वदताऽपि त्वया, पटे घटत्वात्यन्ताभावस्य प्रतियोग्यसमानाधिकरणघटत्वाभावस्याङ्गीकार्यत्वादिति सम्बन्धः । ननु घटपटयोरभेदे घटत्वाभावस्य पटे प्रतियोग्यसमानाधिकरण्यमेव कथमुपपद्यत इत्याशङ्कयोक्तम् - घटपटयोर्व्यावहारिकभेदमात्रेणेति ॥ अत्र दृष्टान्तः - बिम्बेति ॥ यथा बिम्बप्रतिबिम्बयोः स्वरूपैक्येऽपि, व्यावहारिकभेदबलाद् बिम्बस्यैव बिम्बत्वं सत्त्वं च, प्रतिबिम्बस्यैव प्रतिबिम्बत्वमसत्त्वं चेति व्यवस्था, तथा घटस्यैव घटत्वम्, न तु पटस्येत्यङ्गीकार्यमिति भावः । ननु घटवत् पटेऽपि घटत्वमङ्गीक्रियत एव । न चैवं 'घट एव घटव्यवहारो न पट' इति व्यवस्थानुपपत्तिरिति वाच्यम् । अविद्यासामर्थ्येन तदुपपत्तेरित्याशङ्कते- घटत्वस्येति ॥ तथा चोक्तहेत्वप्रसिद्धितादवस्थ्यमिति भावः । विषयनिरपेक्षाविद्यायाः साक्षात्तादृशव्यवहारनियामकत्वमसिद्धमित्याह-न हीति ॥ अन्यथाऽऽविद्यकविषयवैयर्थ्यप्रसङ्गात् । विषयसम्पादनद्वारैव तस्यास्तादृशव्यवहारनियामकत्वमङ्गीकार्यमिति भावः । ततः प्रकृते किमित्यत आह - तथात्व इति ॥ विषयसम्पादनद्वारा व्यवहारनिर्वाहकत्वे चेत्यर्थः ॥ पटेऽपि तं जनयेदिति ॥ पटे घटत्वरूपविषयसत्त्वादविद्या तद्व्यवहारं जनयेदित्यर्थः ॥

Loading…