Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
भेदस्य घटादिधर्मत्वपक्षे उक्तदोषपरिहारः
§116Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् । ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
यच्चोक्तं भावोऽभावो वेति, तत्र ब्रूमो यो भेदो यत्र प्रतीयते स तत्स्वरूप इति । न चैवं घटात्यन्ताभावे प्रतीयमानघटभेदस्य घटात्यन्ताभावरूपतया तस्य च घटेऽपि सत्त्वात् घटभेदप्रतीतिप्रसङ्ग इति वाच्यम् । घटे घटभेदत्वेन तदसत्त्वात् । न च स्वरूपप्रतियोगिप्रतियोगितावच्छेदकाविशेषे भेदत्वात्यन्ताभावत्वयोरप्यविशेष इति वाच्यम् । घटनिषेधोऽत्यन्ताभावो घटतादात्म्यनिषेधोऽन्योन्याभाव इति विशेषात् । घटो न भवतीति साक्षाद्धटस्य प्रतियोगित्वं भासत इति चेत् घटोऽपि प्रतियोग्येव । तादात्म्यं भेदप्रतियोगितावच्छेदकमित्यप्याहुः ॥
एतेन संयोगेन संयोग्यत्यन्ताभावस्य संयोगरूपसंयोगितादात्म्यावच्छिन्नप्रतियोगिताकतया तद्भेदत्वापत्तिरिति निरस्तम् । संयोगस्य संयोग्यत्यन्ताभावाप्रति-
योगित्वात् । तदवच्छेदकत्वेऽपि संयोगत्वेनैव । न तु तादात्म्यत्वेनेति विशेषात् । वस्तुतोऽन्योन्यात्यन्ताभावयोः सदसत्प्रतियोगिकत्वाभ्यामस्ति महान् विशेषः ॥
एतेन नास्ति, न भवतीति प्रतीत्योरविशेषप्रसङ्गोऽपि निरस्तः । यदपि मूले वृक्षः कपिसंयोगी नेति प्रतीतेर्मूलावच्छिन्नवृक्षे कपिसंयोगिभेदः सिद्ध्येदिति तदिष्टमेव विशिष्टभेदवादिनाम् । न चैवं प्रत्यभिज्ञाविरोधः । शाखामूलाद्यवच्छिन्नयोरभेदस्यापि सत्त्वात् । न च भेदाभेदयोर्विरोधः । विशेषबलादविरोधोपपत्तेः । न चैवं विशेष एवास्तु, किं भेदेनेति वाच्यम् । भेदस्य प्रमितत्वात् ॥