Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभावसामान्यविरोधिनिर्णयः

§117Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
यत्त्वभावत्वावच्छेदेन प्रतियोगिविरोधावधारणात् घटवति घटभेदानुपपत्तिरिति । तदसत् । घटवति घटप्रागभावादेरनुपपत्तेः । प्रागभावादेः प्रतियोगिदेशवृत्तित्वस्य प्रमितत्वात् प्रतियोगिकालावृत्तित्वरूपो विरोधस्तत्रावधार्यत इति चेत् तर्हि भेदस्य प्रतियोगिदेशकालवृत्तित्वस्य प्रमितत्वात् प्रतियोगिवस्त्ववृत्तित्वरूपो विरोधोऽत्रावधार्यताम् । प्रतियोगिनैकदैकत्रानवस्थानरूपविरोधः प्रागभावाद्यनुगत इति चेत् स्वाभावेनैकदैकत्रानवस्थानरूपविरोधो भेदाद्यनुगत इत्यस्तु । वस्तुतः प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिविरोधः सर्वाभावसाधारणः । भेदस्यापि तादात्म्येन प्रतियोगिविरुद्धत्वात् ॥

Loading…