Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवब्रह्मपक्षकानुमानद्वये साध्यघटकसमानत्वविमर्शः

§38Mūla
अत्र जीवब्रह्मप्रतियोगिकभेदयोः घटसत्तया व्यावहारिक्या समानसत्ताकयोर्भेदयोः घटे प्रसिद्धत्वान्नाप्रसिद्धविशेषणत्वम् । जीवब्रह्मणोश्च पारमार्थिकत्वात्तत्सत्तासमानसत्ताकत्वेन सिध्यन् भेदः पारमार्थिक एव सिध्यतीति न सिद्धसाधनम् ॥
अथ सत्तात्वादिना ब्रह्मसत्तासमानसत्ताकव्यावहारिकभेदमादाय सिद्धसाधनवारणाय पारमार्थिकत्वेनैव समानत्वं विवक्षणीयम् । तथा च परं प्रति साध्याप्रसिद्धिस्तदवस्थैव । पारमार्थिकत्वव्यावहारिकत्वान्यतररूपेण समानत्वोक्तौ तु सिद्धान्तेव्यावहारिकत्वाप्रसिद्ध्या साध्याप्रसिद्धिः । सत्तात्वव्याप्यरूपेण तद्विवक्षणे च पारमार्थिकव्यावहारिकान्यतरत्वेन ब्रह्मसत्तासमानत्वमादाय सिद्धसाधनम् ॥ यत्तु समानत्वमभेद एव । सिद्धान्ते भेदस्य धर्मिस्वरूपत्वेन तत्र धर्मिसत्तातिरिक्तसत्ताविरहादिति । तन्न । परमते घटादौ साध्यप्रसिद्ध्यनुपपत्तेः । मैवम् । तदधिकरणयावत्कालवृत्तित्वं तत्समानत्वमित्यङ्गीकारात् । व्यावहारिकस्य व्यवहारनिवृत्तिकालावृत्तित्वेन सिद्धसाधनायनवकाशात् । यद्वा, ब्रह्मसत्ताभिन्नत्वतदभिन्नत्वान्यतररूपेण समानत्वं विवक्षणीयम् । ब्रह्मसत्ताभिन्नत्वेन धर्मिसत्तासमानसत्ताकभेदस्य घटादौ प्रसिद्धत्वान्नाप्रसिद्धविशेषणत्वम् । ब्रह्मणि ब्रह्मसत्ताभिन्नत्वेन धर्मिसत्तासमानत्वासम्भवेन तदभिन्नत्वेन तत्समानसत्ताकभेदः सिध्यन् ब्रह्माभिन्नः पारमार्थिक एव सिध्यतीति दिक् ॥ अत्र च घटादिसत्तासमानसत्ताकभेदस्य ब्रह्मण्यभ्युपगमात् सिद्धसाधनमतो धर्मीति । यद्यपि घटादेर्मेयत्वादिकं प्रति धर्मित्वमस्त्येव । तथापि स्वधर्मित्वं विवक्षितम् । स्वपदस्य च तत्तद्भेदपरत्वान्न दोषः । न चैवमात्मधर्मिकभेदस्य परमते स्वधर्मिसत्तासमानसत्ताकत्वाभावात् साध्याप्रसिद्धिरिति वाच्यम् । सजातीयसाध्यस्य घटादौ प्रसिद्ध्यैवानुमाननिर्वाहात् । अन्यथा पक्षीयवहेः प्रागसिद्धत्वेनानुमानोच्छेदप्रसङ्गात् । वस्तुतः स्वनिष्ठत्वस्वनिष्ठसत्तासमानसत्ताकत्वोभयसम्बन्धेन धर्मिविशिष्टो भेदः साध्यः । एवं च साध्यस्यानुगतत्वाद्घटादौ तत्प्रसिद्धिः सुलभैव । एतेन भेदस्यानुगतत्वपक्षे घटादिसत्तासमानसत्ताकतद्धर्मिकभेदस्यैवात्मन्यभ्युपगमेऽपि न सिद्धसाधनावकाशः । गुणादौ द्रव्यवृत्तित्वविशिष्टसत्ताया इव घटादिवृत्तित्वविशिष्टभेदस्यात्मन्यभावादिति ॥

Loading…