Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवब्रह्मपक्षकानुमानद्वये साध्यघटकसमानत्वविमर्शः

§38Mūla
दुःखादीनामन्तःकरणाश्रितत्वेऽपि जीवस्यानुसन्धातृत्वात्, ब्रह्मणश्च दुःखानुसन्धातृत्वे तद्भावलक्षणमुक्तेरपुरुषार्थत्वप्रसङ्गात् निरञ्जनश्रुतिविरोधाच्च तदभावावश्यम्भावान्नासिद्धिः ॥
ननु ज्ञानसुखदुःखादीनामैकाधिकरण्यनियमेन दुःखानधिकरणे जीवे तदनुसन्धानस्याप्यभावात् प्रथमानुमाने स्वरूपासिद्धिः । अन्यथा ब्रह्मणोऽप्यविशेषेण दुःखानुसन्धानापत्त्या द्वितीये तद्दोष इत्यत आह – दुःखादीनामिति ॥ वृत्त्यात्मकानामेव ज्ञानसुखादीनामैकधिकरण्यनियमात् तदनुसन्धानस्य च साक्षिप्रत्यक्षत्वेन जीवगतत्वे बाधकाभावान्न प्रथमेऽसिद्धिः । ब्रह्मणश्च दुःखानुसन्धातृत्वे तद्भावं प्राप्तस्यापि तदापत्त्या, मुक्तित्वेन पराङ्गीकृतब्रह्मभावस्य पुरुषार्थत्वानुपपत्तेः 'निरनिष्टः' इत्यादिश्रुत्यप्रामाण्यप्रसङ्गाच्च ब्रह्मणो दुःखाननुसन्धातृत्वावश्यकत्वान्न द्वितीयेऽपि दोष इति भावः ॥

Loading…