Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवपक्षकानुमाने पक्षनिष्कर्षः

§39Mūla
नन्वत्र जीवशब्देनानवच्छिन्नचैतन्यविवक्षायां तस्य दुःखाननुसन्धातृत्वेनासिद्धिप्रसङ्गादन्तःकरणेन वाऽज्ञानेन वाऽवच्छिन्नचैतन्यं विवक्षणीयम् । न च तद्युक्तम् । अवच्छिन्नस्य मिथ्यात्वेन तत्सत्तासमानसत्ताकत्वेन सिध्यतो भेदस्य पारमार्थिकत्वासिद्धेरिति चेत्, कस्तर्हि तवापि जीवशब्दार्थः । अवच्छिन्नमेवेति चेत् तर्हि जीवमुक्तिर्मिथ्या स्यात् ॥
आद्यानुमाने पक्षं परिष्कर्तुमाशङ्कते – नन्विति ॥ अनवच्छिन्नेति ॥ यद्यपि यावद्विशेषणानवच्छिन्नस्य बोधयितुमशक्यत्वान्न पक्षत्वसम्भवः । सिद्धान्ते पक्षाप्रसिद्धिश्च । तथाप्यनवच्छिन्नपदस्यान्तःकरणायनवच्छिन्नपरतया तदनवच्छिन्नत्वेन पक्षत्वे तात्पर्यान्न दोषः । बहुजीवपक्षेऽन्तःकरणेनेति, एकजीवपक्षेऽज्ञानेनेति । अवच्छिन्नं विशिष्टम् । तस्य च मिथ्यात्वमपारमार्थिकत्वं, व्यावहारिकत्वमिति यावत् । तथाच तत्सत्तासमानसत्ताकभेदस्य सिद्धत्वात् सिद्धसाधनं, पारमार्थिकभेदासिद्धेरर्थान्तरं चेत्याशयः । अत्र विशिष्टघटकविशेष्यांशस्यैव पक्षत्वमङ्गीकृत्य समाधास्यन् उक्तसिद्धसाधनाद्यभावस्फुटीकरणाय पृच्छति – कस्तर्हि तवेति अवच्छिन्नमिति ॥ सामान्ये नपुंसकम् । अवच्छिन्नं चैतन्यमिति वा ॥ मिथ्या स्यादिति ॥ शशशृङ्गादिवदसती स्यादित्यर्थः । जीवस्य मिथ्यात्वेन अज्ञानवत् प्रविलीनस्य ब्रह्मभावायोगादिति भावः । तथाच निष्प्रयोजनत्वेन वेदान्तानामनारम्भणीयत्वप्रसङ्ग इति ध्येयम् ।

Loading…