Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकं प्रथममनुमानम्

§46Mūla
अपि च पृथिवीत्वं जलत्व-तेजस्त्व-वायुत्व-मनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम् । जातित्वात् प्रमेयत्वाद्वा जलत्ववत् ॥
इदानीमात्मत्वं नानाव्यक्तिनिष्ठं जातित्वात् घटत्ववदित्याद्यनुमानेषु पूर्वपक्षोक्तदोषमुद्दिधीर्षुराद्यानुमानेऽसिद्धिशङ्कापरिहारायाऽत्मत्वस्य जातित्वसाधकप्रमाणं... तावदाह - अपि चेति ॥ 'इत्यनुमानान्यात्मत्वजातिसाधनद्वाराऽऽत्मभेदं साधयन्ति' इति सम्बन्धः। अत्र पृथिवीत्वभेदमादाय दृष्टान्ते साध्यसत्त्वं, पक्षे तु तदयोगादात्मत्वजातिभेदमादायैव साध्यपर्यवसानादुद्देश्यसिद्धिः । न चाकाशत्वादिजात्यन्तरसिद्ध्याऽर्थान्तरमाशङ्क्यम् । तर्कविरोधेन तदसिद्धेर्वक्ष्यमाणत्वात् । आत्मैक्यग्राहकतर्काणां च बलवत्प्रमाणविरुद्धत्वेन आभासत्वादिति । एतेन विभुत्वादिजात्यन्तरसिद्ध्याऽर्थान्तरमित्यपास्तम् । द्रव्यत्वव्याप्यजातिराकाशाद्यवृत्तिः सत्ताद्रव्यत्वातिरिक्तजातित्वात् पृथिवीत्ववदित्यादितर्कविरुद्धत्वात् । संस्कारशून्यावृत्तित्वेन जातिविशेषणीयेत्यप्याहुः ।

Loading…