Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदसाधकानुमानानामप्रयोजकत्वादिशङ्कापरिहारौ

§45Mūla
तत्राविद्योपाधिरेक एवेति चेत् । इहाप्येकजीववादिन एक एव । बहुजीववादिनस्तु सुप्तावपि कारणात्मनाऽन्तःकरणानुवृत्तिं वदतो नाविद्यावच्छेदो जीवभावे हेतुः । किन्त्वर्हन्तःकरणमेव । ततश्च तदेव व्यवस्थानियामकं वाच्यम् । तच्च योगिन्यपि भिद्यत इत्युक्तम् ।
अस्तु तर्ह्यविद्योपाधिकृतभेद एवाननुसन्धाननियामकः । चैत्रमैत्रादेरविद्याभेदादननुसन्धानस्य योगिनो देहभेदेऽप्यविद्यैक्यादनुसन्धानस्य चोपपत्तेः । न च भेदकाभावात्कथमविद्याभेद इति वाच्यम् । तस्यानादित्वाभ्युपगमादित्याशयेनाशङ्कते – तत्रेति ॥ नानादेहवति योगिनीत्यर्थः । अविद्याभेदस्याननुसन्धाननियामकत्वं किमेकजीववादमाश्रित्योच्यते किं वा बहुजीववादम् । आद्ये दोषमाह – इहेति ॥ अयोगिनि चैत्रादावित्यर्थः ॥ एक एवेति ॥ अविद्योपाधिरित्यनुवर्तते । मत इति शेषः । तथाचैक एव हिरण्यगर्भो जीवस्तदन्ये तु घटादिवत्स्वरूपेणैव मिथ्याभूता इति मते परस्पराननुसन्धानप्रयोजकस्याविद्योपहितपरस्परभेदस्य चैत्रमैत्रादिषु दुर्वचत्वेन परस्पराननुसन्धानानुपपत्तिरिति भावः । द्वितीये दोषमाह – बहुजीवेति ॥ सुप्तौ कार्यात्मनाऽन्तःकरणवृत्त्यसम्भवात् कारणात्मनेत्युक्तम् । तथाचाविद्योपाधेः जीवभावहेतुत्वे तत एव सुप्तौ जीवभावोपपत्तेरन्तःकरणानुवृत्तिवैयर्थ्यमिति भावः । नन्वविद्योपाधेर्जीवभावहेतुत्वाभावेऽप्युक्तव्यवस्थानियामकत्वमस्त्वत आह – ततश्चेति ॥ व्यवस्थानियामकमिति चैतन्यैक्येऽपि परस्परभोगाननुसन्धाननियामकपरस्परभेदप्रयोजकतया तस्यैव तदनुसन्धानमिति नियमनिर्वाहकमित्यर्थः । ऐक्यवादे निरुक्तव्यवस्थानिर्वाहार्थमेव जीवभेदस्य कल्पितत्वेन तन्नियामकस्यैव तन्नियामकत्वप्राप्तेरिति भावः ॥ तच्चेति ॥ स्वसम्बद्धदेहभेदेन परस्पराननुसन्धानप्रयोजकमन्तःकरणं चेत्यर्थः । तथाच योगिनो नानादेहगतभोगानुसन्धानानुपपत्तितादवस्थ्यमिति भावः ॥

Loading…