Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदसाधकानुमानानामप्रयोजकत्वादिशङ्कापरिहारौ

§45Mūla
चान्तःकरणस्य चोपाधेर्भिन्नत्वात् । न ह्यन्यदेहस्थमन्तःकरणमन्यदेहस्थं भवति ।
ननूक्तानुमानेषु विपक्षे बाधकाभावादप्रयोजकत्वम् । न चैवमेकस्यैव स्वाननुसंहितानुसन्धातृत्वापत्तिः । तत्प्रतियोगिकभेदमात्रस्य तत्प्रयोजकत्वेनाप्युपपत्तेः पारमार्थिकभेदस्यानावश्यकत्वादित्याशङ्कते – नन्विति ॥ उपाधिभेदमात्रेण पारमार्थिकभेदाभावेऽप्यविद्याद्युपाधिकृतभेदेन । दुःखेत्यादेर्जीवेश्वरयोरित्यादिः । अप्रयोजकत्वम् उक्तहेतूनामिति शेषः । तदननुसंहितानुसन्धातृत्वादौ तत्प्रतियोगिकपारमार्थिकभेद एव प्रयोजको वाच्यः । अन्यथा योगसिद्धसौभर्यादीनां स्वेच्छागृहीतनानादेहावच्छिन्नचैतन्यानुसंहितानुसन्धातृत्वानुपपत्तेः । तथाच विपक्षे हेत्वनुपपत्तिरेव बाधिकेत्याशयेन समाधत्ते ॥ मैवमिति ॥ उपाधेर्भिन्नत्वादित्यन्तमौपाधिकभेदे हेतुः । नन्वन्तःकरणकृतभेदस्यैवाननुसन्धानप्रयोजकत्वान्न देहभेदेऽपि अनुसन्धानानुपपत्तिरित्यत आह – अन्तःकरणस्य चेति । ननु देहभेदेऽप्यन्तःकरणैक्यमस्त्वत आह – न हीति ॥ अन्तःकरणस्याकाशादिवत् अव्याप्तत्वादिति भावः । अथ तस्य यावद्देहव्यापित्वे को दोष इति चेत्तर्हि तदन्तरानुवर्तिपुरुषान्तरस्यापि तदन्तःकरणग्रस्तत्वेन तत्कृतभेदाभावात् तत्पुरुषीयानुसन्धानापत्तेः ॥ किं च किमन्तःकरणैक्ये चैतन्यैक्यं नियामकमुत देहैक्यम् । नाद्यः । अयोगिनामपि अन्तःकरणैक्यप्रसङ्गात् । नान्त्यः । योगिनामपि तदनुपपत्तेः । न च तत्तद्देहगतभोगानुसन्धानं तत्तद्देहगतान्तःकरणैक्यनियामकमतो नोक्तदोष इति वाच्यम् । भोगानुसन्धानस्यान्तःकरणैक्यनिबन्धनत्वेनान्योन्याश्रयात् । सिद्धान्ते त्वन्तःकरणांशानां देहभेदेन भेदेऽप्यात्मैक्यस्यानुसन्धाननियामकत्वान्न कश्चिद्दोषः ॥

Loading…