Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदसाधकानुमानानामप्रयोजकत्वादिशङ्कापरिहारौ

§45Mūla
ननूपाधिभेदमात्रेण दुःखानुसन्धातृत्वाननुसन्धातृत्वोपपत्तेः पारमार्थिकभेदसाधनेऽप्रयोजकत्वमिति चेन्मैवम् । औपाधिकभेदेऽपि योगिनो नानादेहजन्यसुखाद्यनुसन्धानदर्शनात् । अत्र देहस्य
--- टिप्पण्यः (footnotes): : 'नन्वौपाधिकभेदमात्रेण' इति पू.सं.पाठः । अयं च शर्करायामादृतः । हुलगीआचार्यैश्च । भगवन्तरायैः 'ननु च' इति प्रतीकग्रहणात् 'च'शब्दः अधिको वर्तते इति ज्ञायते । अग्रे च 'उपाधिभेदमात्रेण' इति पदं गृहीत्वा व्याख्यातम् । काशिकायाम् 'उपाधिभेदमात्रेण' इत्येव पदं गृहीतमिति स पाठोऽत्र स्वीकृतः । पू.सं.पाठे चायं कंसगतः । : पू.सं.पाठे 'अप्रयोजकत्वमेवेति' इति एवशब्दोऽधिकः । : 'अनुसन्धानस्यैव दर्शनात्' इति एवकारघटितः व्यस्तः पू.सं. पाठः ।

Loading…