यद्वा ब्रह्मप्रतियोगिकाभेदो न जीवधर्मिको भवति । ब्रह्मधर्मिकाऽभेदो वा न जीवप्रतियोगिकः । जीवानुसंहितदुःखाननुसन्धातुरभेदत्वात् । व्यतिरेकेण जीवप्रतियोगिकजीवधर्मिकैक्यवत् । जीवप्रतियोगिकमैक्यं वा न ब्रह्मधर्मिकं जीवधर्मिकमैक्यं वा न ब्रह्मप्रतियोगिकं ब्रह्माननुसंहितदुःखानुसन्धातुरभेदत्वात् । व्यतिरेकेण ब्रह्मप्रतियोगिकब्रह्मधर्मिकैक्यवत् । एवं यज्ञदत्तादिभ्यो देवदत्तादीनां भेदः साध्यः ॥
अप्रसिद्धविशेषणत्वशङ्कानास्कन्दितमनुमानान्तरमाह – यद्वेति ॥ अभेदस्तादात्म्यम् । यद्यपि ब्रह्मप्रतियोगिकाभेदो न जीवप्रतियोगिकः, ब्रह्मधर्मिकाभेदो वा न जीवधर्मिक इत्युक्तावप्यर्थाज्जीवब्रह्मणोर्भेदः सिद्ध्यति । तथापि अभेदसाधकत्वेन पराभिमतस्य तत्त्वमसीत्यादिवाक्यस्य जीवे ब्रह्मप्रतियोगिकाभेदो ब्रह्मणि जीवप्रतियोगिकाभेदो वा प्रतिपाद्यः । साक्षात्तद्विरोधित्वं च यथोक्तानुमानानामेवेतितदनुसरणम् । तत्र प्रथमचतुर्थयोः प्रथमविरोधित्वम्, द्वितीयतृतीययोः द्वितीयविरोधित्वमिति द्रष्टव्यम् ॥
हेतौ तादात्म्यत्वमात्रस्य दृष्टान्तेऽनैकान्त्यादननुसन्धातृतादात्म्यत्वस्य चासिद्धेर्जीवानुसंहितेत्यादि व्याख्यातार्थकम् । अत्र जडतादात्म्यस्य पक्षसमत्वेनान्वयदृष्टान्ताभावादाह – व्यतिरेकेणेति । न च परमते जीवप्रतियोगिकैक्यस्य ब्रह्मप्रतियोगिकत्वमप्यस्त्येवेति न व्यतिरेकिदृष्टान्तस्यापि सम्भव इति वाच्यम् । जीवैक्यादेर्जीवत्वादिस्पतया तत्र दुःखाननुसन्धातृत्वत्वरूपहेत्वभावस्योभयवादिसिद्धत्वात् ॥ एवमिति ॥
देवदत्तो यज्ञदत्तप्रतियोगिकधर्मिसत्तासमानसत्ताकभेदाधिकरणं तदननुसंहितदुःखानुसन्धातृत्वाद्व्यतिरेकेण यज्ञदत्तवदित्यादिप्रकारेणेत्यर्थः ॥