Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

ब्रह्मतादात्म्याधिकरणभेदरूपसाध्याप्रसिद्धिशङ्कापरिहारौ

§43Mūla
न तृतीयः । उभयाविघटनेनादूषणत्वात् । व्याप्तिपक्षधर्मतान्यतरविघटकत्वेनैव हि दूषणम् ।
ब्रह्मधर्मिकभेदानुमानस्य प्राधान्यादन्योपलक्षकतया तत्र साध्याप्रसिद्धेरदोषत्वमुपपादयति – नाद्य इत्यादिना ॥ ननु पक्षधर्मिकसाध्यतदभावकोटिकसन्देहस्यैव पक्षतात्वात् कथमन्यविधसंशयेन पक्षतोपपत्तिरत आह – अभिधेयत्वसाध्यकानुमान... इति ॥ अभिधेयत्वं शब्देऽस्ति न वेति संशयेनेति शेषः । यथा शब्दोऽभिधेयः प्रमेयत्वादित्यादौ साध्याभावाप्रसिद्ध्या साध्यतदभावकोटिकसंशयासम्भवेऽपि साध्ये पक्षनिष्ठत्वतदभावकोटिकसंशयस्य पक्षतात्वमुपेयते, तथाऽत्र जीवतादात्म्यरूपसाध्याभावे पक्षनिष्ठत्वतदभावकोटिकसंशयस्य पक्षतात्वमुररीक्रियते, विशेषाभावादिति भावः । इदमुपलक्षणम् । विप्रतिपत्त्यधीनसाध्यसंशयस्य सिषाधयिषाविरहविशिष्टसिद्ध्यभावस्य च पक्षतात्वसम्भवो द्रष्टव्यः ॥ ननु साध्याप्रसिद्धौ कथं साध्याभावस्यापि व्याप्तिग्रहः । प्रतियोगिप्रसिद्धेरभावधीहेतुत्वादित्यत आह – यत्रेति ॥ शब्दो गगनविशेषगुणः शब्दत्वाद्व्यतिरेकेण रूपवदित्यादौ । व्याप्त्युपयोगिनः साध्याभावे हेत्वभावनिरूपितव्याप्तिग्रहप्रयोजकस्य । अभावस्य साध्याभावज्ञानस्य । भावज्ञानाधीनत्वात् साध्यज्ञानप्रयोज्यत्वात् । साध्याप्रसिद्धिर्दोषाय व्याप्तिग्रहविघटनद्वाराऽनुमितिविघटनायेत्यर्थः ॥ अयमाशयः । व्यतिरेकिणि तद्धर्मावच्छिन्नाभावसाध्यकानुमितौ तद्धर्मावच्छिन्नाभावाभावत्वेन व्याप्तिज्ञानवत्तद्धर्मेण व्याप्तिज्ञानमपि हेतुः । वह्न्यभावाभावत्वेनेव वह्नित्वेन व्याप्तिज्ञानादपि वह्न्यभावानुमितिदर्शनात् । तथाच प्रकृते प्रसिद्धजीवतादात्म्यत्वेन व्याप्तिग्रहात्तदवच्छिन्नाभावसाध्यकानुमितिर्न साध्यसिद्धिमुपेक्षत इति ॥ अथ सिद्धान्ते व्यतिरेकस्यान्वयमुखेनैव साध्यसाधकतया कथमप्रसिद्धसाध्यव्याप्त्यनुमापकत्वं तस्येति चेन्न । यो यद्व्यापकीभूताभावप्रतियोगी स तदभावव्याप्यः । वह्न्यभावव्यापकीभूताभावप्रतियोगिधूमवदिति सामान्यव्याप्त्या पक्षधर्मताबलादप्रसिद्धसाध्यव्याप्त्यनुमितिसम्भवादिति विभावनीयम् ॥ उभयाविघटनेनेति ॥ उक्तरीत्या व्याप्तिपक्षधर्मताग्रहाविघटकत्वेनानुमित्यविघटकत्वादित्यर्थः । ननु तथापि बाधादिवदसिद्धेरपि साक्षादनुमितिविरोधित्वेनैव दोषत्वमस्त्वत आह – व्याप्तीति ॥ बाधादेरपि साध्यसन्देहरूपपक्षताविघटकत्वेन दोषत्वं बोध्यम् ॥

Loading…