Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

ब्रह्मतादात्म्याधिकरणभेदरूपसाध्याप्रसिद्धिशङ्कापरिहारौ

§43Mūla
यत्र व्यतिरेकिणि भावः साध्यस्तत्र व्याप्त्युपयोगिनोऽभावस्य भावज्ञानाधीनत्वात् साध्याप्रसिद्धिर्दोषाय । प्रकृते त्वभावस्य साध्यत्वान्न दोषः ॥
--- टिप्पण्यः (footnotes): : 'तत्राभावस्य व्याप्त्युपयोगिनो भावज्ञानाधीनत्वात्' इति पदयो पूर्वापरीभावः प्र. पाठे, पू.सं.पाठे च दृश्यते । कुम्भारीये तावत् 'तत्राभावज्ञानस्य व्याप्त्युपयोगिनो भावाधीनत्वात्' इति पाठः सुगमः इत्युक्तम् । अपि च 'क्वचित् तत्राभावव्याप्तिप्रतियोगिनोऽभावाधीनत्वात्' इति पाठः इत्युक्त्वा 'तत्र व्याप्तिप्रतियोगिनो व्याप्त्याश्रयस्य अभावज्ञानधीतत्वात् इत्यर्थः' इति च व्याख्यातम् । तत्र प्रथमे पाठे अभावज्ञानस्य भावज्ञानाधीनत्वेन 'अभावज्ञानस्य' इति पाठः स्वरसः । परन्तु अग्रे 'भावाधीनत्वात्' इति न युज्यते । 'भावज्ञानाधीनत्वात्' इत्येव भवेत् । द्वितीयपाठस्तु क्लेशेन व्याख्येय इत्यस्वरस एव । अन्येषु व्याख्यानेषु अभावस्येति पदस्य अभावज्ञानस्येति व्याख्यातत्वात् प्र.पाठः युक्त एव । अत्रापि कश्चन विशेषोऽस्ति काशिकायां व्याप्त्युपयोगिनः इति पदं प्रथमं व्याख्याय पश्चात् अभावस्य इति पदस्य व्याख्यानात् प्र.पाठोऽपि पूर्वापरीभावः शङ्क्यते । अतः काशिकासम्मतपाठत्वेन सोऽत्र स्वीकृतः ।

Loading…