ब्रह्मतादात्म्याधिकरणभेदरूपसाध्याप्रसिद्धिशङ्कापरिहारौ
§43Mūla
नाद्यः । ब्रह्म जीवप्रतियोगिकतादात्म्यावच्छिन्नं न वेति संशयाभावेऽपि जीवप्रतियोगिकतादात्म्यं ब्रह्मण्यस्ति न वेति संशयमात्रेणाभिधेयत्वसाध्यकानुमान इव पक्षतोपपत्तेः । न द्वितीयः । केवलव्यतिरेकिणि साध्याभावस्य व्याप्तिग्रहणात् । अत्र च साध्याभावस्य जीवतादात्म्यस्य जीवे प्रसिद्धेः ॥