Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

ब्रह्मतादात्म्याधिकरणभेदरूपसाध्याप्रसिद्धिशङ्कापरिहारौ

§43Mūla
न चैवमप्रसिद्धविशेषणत्वं दोषाय । तद्धि साध्यकोट्यप्रसिद्धौ साध्यतदभाववत्त्वेन संशयानुदयात् पक्षताविघटनेन पक्षधर्मताविघटनेन वा दोषः, उताप्रसिद्धेन साध्येन हेतोर्व्याप्तिग्रहणायोगात् व्याप्तिविघटनेन वा उभयविघटनेन वा ॥
तथापि प्रकृते न तादृशासिद्धिरुद्भावयितुं शक्या । विप्रतिपत्त्या भेदे ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकत्वसन्देहेन तदनिर्णयात् । तत्सन्देहस्य च साध्यसन्देहाधायकत्वेनाविरोधित्वात् । किन्तूक्तसाध्यस्य क्वचिदगृहीतत्वादज्ञानरूपासिद्धिरेवोद्भाव्या । सा च नाभावसाध्यकव्यतिरेक्यनुमाने दोष इति भावः । एतदेवोपपादयति – तद्धीति ॥ 'पक्षधर्मताविघटनेन वा व्याप्तिविघटनेन वोभयविघटनेन वा दोष' इति सम्बन्धः । ननु साध्यस्याप्रसिद्धावपि हेतोः पक्षधर्मत्वसम्भवात् कथं तस्यास्तद्विघटकत्वमित्यत उक्तम् – पक्षताविघटनेनेति ॥ तदपि कथम् ? अतः साध्यकोटीत्यादि । अथ पक्षताविशिष्टपक्षधर्मताज्ञानं नानुमितिहेतुः । पक्षतायाः स्वरूपसत्याः पृथगेव हेतुत्वात् । किन्तु पक्षतावच्छेदकवति हेतोर्धर्मत्वज्ञानमेव हेतुरिति कथं पक्षताविघटकस्य अनुमित्यौपयिकपक्षधर्मताविघटकत्वमिति चेत् सत्यम् । तथापि पक्षतायाः स्वातन्त्र्येण हेतुत्वे तद्विशिष्टपक्षधर्मताया अनुमितिप्रयोजकत्वानपायात् एकदेशविघटकस्य विशिष्टविघटकत्वमव्याहतमेव । अप्रसिद्धेनेत्याद्ययोगादित्यन्तं व्याप्तिविघटने हेतुः । साध्यस्याप्रसिद्धौ तन्निरूपितव्याप्तिग्रहायोगादित्यर्थः ॥ उभयविघटनेनेति ॥ उक्तरीत्या व्याप्तिपक्षधर्मतोभयविघटनेनेत्यर्थः ॥

Loading…