Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

धर्मिसत्तासमानसत्ताकत्वाघटितानुमानद्वयविवरणम्

§42Mūla
न चैवमप्रसिद्धविशेषणत्वं दोषाय । तद्धि साध्यकोट्यप्रसिद्धौ साध्यतदभाववत्त्वेन संशयानुदयात् पक्षताविघटनेन पक्षधर्मताविघटनेन वा दोषः, उताप्रसिद्धेन साध्येन हेतोर्व्याप्तिग्रहणायोगात् व्याप्तिविघटनेन वा उभयविघटनेन वा ॥
नन्वेवं परमते सर्वस्यैव ब्रह्मतादात्म्याधिकरणत्वात्तदवच्छिन्नप्रतियोगिताकभेदरूपसाध्याप्रसिद्धिरत आह – न चैवमिति ॥ यद्यपि काञ्चनमयवह्न्यादेः साध्यतायामिव साध्ये साध्यतावच्छेदकाभावरूपासाध्याप्रसिद्धिः साक्षादनुमितिविरोधितया दोष एव ॥

Loading…