Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
धर्मिसत्तासमानसत्ताकत्वाघटितानुमानद्वयविवरणम्
§42Mūla
यद्वा जीवो ब्रह्मप्रतियोगिकतादात्म्याधिकरणं न भवति, ब्रह्म वा जीवप्रतियोगिकतादात्म्याधिकरणं न भवति इति पूर्वोक्तहेत्वोरेव साध्यनिर्देशो द्रष्टव्यः ॥
भेदे धर्मिसत्तासमानसत्ताकत्वमनिवेश्यापि पारमार्थिकभेदसाधनप्रकारमारभते ॥ यद्वेति ॥ पूर्वोक्तहेत्वोः क्रमेणेति शेषः । तथाच जीवो ब्रह्मप्रतियोगिकतादात्म्याधिकरणं न भवति, ब्रह्माननुसंहितदुःखानुसन्धातृत्वात् व्यतिरेकेण ब्रह्मवत् । ब्रह्म वा जीवप्रतियोगिकतादात्म्याधिकरणं न भवति, जीवानुसंहितदुःखाननुसन्धातृत्वाद्व्यतिरेकेण जीववदित्युक्तं भवति ॥
न च ब्रह्मतादात्म्याधिकरणभूतब्रह्मप्रतियोगिकव्यावहारिकभेदस्य जीवेऽभ्युपगमात् सिद्धसाधनमिति वाच्यम् । ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्य साध्यत्वात् । घटाकाशे महाकाशप्रतियोगिकभेदाभ्युपगमेऽपि महाकाशतादात्म्यानधिकरणत्वाप्रतीत्या तदधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्येव जीवे व्यावहारिकस्यापि ब्रह्मतादात्म्याधिकरणत्वावच्छिन्नप्रतियोगिताकभेदस्य परानभ्युपगतत्वेन दोषाभावात् ॥