Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
जीवब्रह्मणोः पक्षदृष्टान्तभावानुपपत्तिशङ्कापरिहारौ
§41Mūla
ननु जीवब्रह्मणोर्भेदसिद्धेः पूर्वं कथं पक्षदृष्टान्तभाव इति चेन्न । त्वयाऽभ्युपगतेन व्यावहारिकभेदेनैव पक्षदृष्टान्तभावोपपत्तेः ॥
कथं पक्षदृष्टान्तभाव इति ॥ यद्यपि प्रकृते वादिविप्रतिपत्त्या भेदस्य सन्दिग्धत्वान्न सन्दिग्धसाध्यकत्वादिलक्षणपक्षत्वानुपपत्तिरस्ति । तथापि पक्षत्वसहितदृष्टान्तत्वानुपपत्तेर्विवक्षितत्वान्न दोषः । यद्वा, भेदसिद्धेः पूर्वमभेदनिश्चये यथा जीवस्य पक्षत्वमनुपपन्नं तथा तत्सन्देहे ब्रह्मणो दृष्टान्तत्वमनुपपन्नमित्यर्थे तात्पर्यम् । अत एव भेदसिद्धेः पूर्वमित्यपि सङ्गच्छते । अन्यथा भेदसिद्ध्युत्तरमपि पक्षत्वानुपपत्तिसत्त्वेन तदसङ्गतेः । अत्र जीवे ब्रह्माभेदसन्देहेऽपि ब्रह्मणि तदभेदनिश्चयान्नोक्तदोषः । न चाभेदे तदनुपपत्तिः, व्यावहारिकभेदेनैव तदुपपत्तेरित्याशयेन समाधत्ते ॥ त्वयेति ॥
यद्यपि केवलचैतन्यभेदः परेण नाभ्युपगतः । तथापि विशिष्टभेदस्य विशेष्यीभूतचैतन्यप्रतियोगिकत्वमस्तीति स एव पक्षदृष्टान्तभावोपपादक इति भावः । यद्वा, सार्वज्ञ्यादिविशिष्टचैतन्यमेव दृष्टान्तः । तत्प्रतियोगिकभेद एव साध्य इति न कश्चिद्दोषः । अथ तथापि जीवब्रह्मणोरभेदवादिनां ब्रह्मचैतन्येऽपि दुःखानुसन्धातृत्वसत्त्वाद्ध्यभिचारः । अभेदस्य विप्रतिपत्त्या सन्दिग्धत्वेऽपि सन्दिग्धानैकान्त्यं दुर्वारमिति चेन्न । हेतुमति साध्याभावसन्देहाधीनव्यभिचारसन्देहस्यादोषत्वात् । प्रकृते च तस्य हेतुमति जीवे ब्रह्माभेदसन्देहमूलत्वात् । अन्यथा पक्षीयव्यभिचारसन्देहस्य सार्वत्रिकत्वेन अनुमानोच्छेदप्रसङ्गादिति ॥