Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
जीवब्रह्मपक्षकानुमानद्वयेऽसिद्धिाशङ्कापरिहारौ
§40Mūla
नासिद्धिः । दुःखानुसन्धातृत्वं मिथ्यैवेति चेत् किमनेनाकाण्डताण्डवेन । न ह्यस्माभिस्तत्सत्यत्वं हेतुविशेषणीकृतम् ॥
नन्वपारमार्थिकदुःखानुसन्धातृत्वस्य ब्रह्मण्यनैकान्त्यात् पारमार्थिकत्वेन हेतुर्विशेषणीयः । तथाच परमते हेत्वसिद्धिरित्याशङ्कते – दुःखानुसन्धातृत्वमिति ॥ स्यादेवं यदि पारमार्थिकत्वेन हेतुर्विशेषितः स्यान्न चैवं, प्रातिभासिकानैकान्त्यस्यादोषत्वात् । अन्यथाऽनुमानमात्रोच्छेदापत्तेरिति भावेनाह – किमनेनेति ॥ अनवसरताण्डवायितेनानेनानुक्तोपालम्भेन किमस्माकमनिष्टम् ? न किमपीत्यर्थः । अथायं पूर्वपक्षाभिप्रायः । दुःखानुसन्धातृत्वस्य मिथ्यात्वान्न पक्षधर्मत्वम् । सत्यानृतयोः सम्बन्धानुपपत्तेः । यद्यप्यध्यस्ताधिष्ठानभावरूपः सम्बन्धोऽस्ति । तथापि नासौ हेतुत्वनियामकः । सिद्धान्ते दुःखानुसन्धातृत्वस्यानारोपितत्वेन तदनुपपत्तेः । किन्त्वाश्रयाश्रयिभावः । तथाच परेषामसिद्धिरिति ॥
अत्र ब्रूमः । अनुसन्धातृत्वसम्बन्धेन दुःखवत्त्वस्यैवात्र हेतुत्वम् । अनुसन्धातृत्वं च परमते स्वाधिष्ठान एव, सिद्धान्ते च स्वाधार एव दुःखादेर्वृत्तिनियामकमिति न कोऽपि दोषः ।