Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवपक्षकानुमाने पक्षनिष्कर्षः

§39Mūla
नासिद्धिः । दुःखानुसन्धातृत्वं मिथ्यैवेति चेत् किमनेनाकाण्डताण्डवेन । न ह्यस्माभिस्तत्सत्यत्वं हेतुविशेषणीकृतम् ॥
जीवशब्दार्थविशिष्टघटकविशेष्यांशस्य ब्रह्मत्वापत्तिरेव जीवमुक्तिशब्दार्थः । तत्र च नोक्तदोष इत्याशङ्कते – नन्विति । जीवभावोपलक्षितचैतन्यस्य पक्षत्वान्नार्थान्तरादीत्याशयेन समाधत्ते – यत्रेति ॥ सन्तोष्टव्यमित्यनेन अभ्युपेत्यैवेदमुक्तम् । वस्तुतो विशिष्टस्यापि सत्यत्वमेवेति सूचितम् ॥ तदेवेति ॥ दुःखानुसन्धातृत्वस्य जीवभावनियतत्वादिति भावः ॥

Loading…