Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवेश्वरभेदत्वनिर्वचनम्

§124Mūla
रविद्याप्रपञ्चः नश्यत्युत नेति । आद्ये क्रियाभावः प्रसज्येत । गगनाविद्ययोर्नाशायोगाच्च । महाप्रलयमोक्षौ च स्याताम् । द्वितीये कथं घटस्य पटादिना पारमार्थिकाभेदः । न हि नष्टे रजतेऽनुवृत्तायाः शुक्तेः पारमार्थिकाभेदः । दूरस्थवनस्पत्योरभेदग्राहि च प्रत्यक्षं तत्त्वावेदकप्रमाणं स्यात् । वस्तुतस्तयोस्तादात्म्यादिति प्रतिकूलतर्का ऊह्याः । अभेदसाधकानुमानमात्रस्य प्रत्यक्षानुमानागमबाधतर्कपराहतिसोपाधिकत्वाभाससमानयोगक्षेमत्वादीनि साधारणदूषणानीति । अद्वैतश्रुतयस्तु भगवत्पादैरेवान्यत्रान्यथा व्याख्याताः इति समासः ॥ छ ॥ रमानाथाय हरये पूर्णानन्दशरीरिणे । निर्दोषगुणपूर्णाय सर्वयज्ञभुजे नमः ॥ ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारङ्गतश्रीमद्ब्रह्मण्यतीर्थपूज्यपादशिष्येण व्यासयतिना कृतं भेदोज्जीवनं समाप्तम् ॥
नन्वेवमीश्वरस्य परब्रह्मत्वानुपपत्तिः । तस्य त्रिविधपरिच्छेदराहित्यरूपत्वात् । देशकालपरिच्छेदातिरिक्तवस्तुपरिच्छेदस्य तद्भेदस्वरूपत्वादिति चेन्मैवम् अप्रामाणिकं भाषिष्टाः । 'अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणा' इत्यादिनिगमनिरुक्तनिरवधिकनिःशेषनिर्दोषकल्याणगुणपूर्णत्वस्यैव परब्रह्मत्वरूपत्वात् । तस्मात् जडजीवेश्वराणां परस्परभेदप्रपञ्चस्य पारमार्थिकत्वात् परमेश्वरपरमप्रसादसिद्धये सकलजगज्जन्मादिकारणत्वाद्यनन्तकल्याणगुणाकरतया सर्वोत्तमत्वेन सर्वदैव समुपास्यः श्रीनारायण एवेति सिद्धम् ॥

Loading…