Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

जीवेश्वरभेदत्वनिर्वचनम्

§124Mūla
यच्चेदमुच्यते । विमतो घटः पटप्रतियोगिकतात्विकतादात्म्याधिकरणम् अभिधेयत्वात् प्रमेयत्वाद्वा पटवत् । पटो वा 'घटान्न वस्तुतो भिद्यते द्रव्यत्वात् पृथिवीत्वाद्वा घटवदिति । तत्रेदं वक्तव्यम् । मुद्गरप्रहारादिना किं 'घटो नश्यत्युत नेति । नेति चेदनित्यत्वप्रतिपादकश्रुतिविरोधोऽपसिद्धान्तश्च । घटार्थं क्रियमाणव्यापारवैयर्थ्यं च स्यात् । आद्ये तदैव किं गगनादि-
अत्र जीवेश्वरभेदत्वं नाम न जीवेश्वरोभयप्रतियोगिकभेदत्वम् । परस्परभेदस्योभयप्रतियोगिकत्वाभावेनासङ्ग्रहात् । अत एव नोभयानुयोगिकभेदत्वम् । एकस्योभयानुयोगिकत्वाभावात् । नापि जीवेश्वरान्यतरप्रतियोगिकभेदत्वमन्यतरानुयोगिकभेदत्वं वा । जडेश्वरभेदादेः पृथगुपादानवैयर्थ्यात् ॥ नापि जीवेश्वरान्यतरप्रतियोग्यनुयोगिकभेदत्वम् । मिथो जीवभेदस्य पृथगुपादानानुपपत्तेः । किन्तु जीवेश्वरद्वित्वसमानाधिकरणप्रतियोगितानुयोगिताकभेदत्वम् । जीवेश्वरगतप्रतियोगित्वानुयोगित्वयोर्जीवेश्वरद्वित्वसमानाधिकरणत्वाज्जीवेश्वरभेदसङ्ग्रहः । जडेश्वरगतप्रतियोगित्वानुयोगित्वयोरतथात्वान्न तत्सङ्ग्रहः ॥ न चैवं मिथो जीवभेदसङ्ग्रहापत्तिः । तत्प्रतियोगित्वानुयोगित्वयोः प्रत्येकं जीवेश्वरद्वित्वसमानाधिकरणत्वादिति वाच्यम् । स्वानुयोगिवृत्तिजीवेश्वरद्वित्वसमानाधिकरणप्रतियोगिताकभेदत्वस्य विवक्षितत्वात् । मिथो जीवभेदस्य च स्वानुयोगिवृत्ति यद्जीवेश्वरद्वित्वं तत्समानाधिकरणप्रतियोगिताकत्वाभावेनासङ्ग्रहात् । एतेन जडेश्वरभेदत्वं जडजीवभेदत्वं च व्याख्यातं वेदितव्यम् । मिथो जीवभेदत्वादिकं च जीवप्रतियोगिकजीवानुयोगिकभेदत्वादिरूपम् । जीवत्वं चात्र भगवत्प्रतिबिम्बत्वमेवेति सङ्क्षेपः ॥

Loading…