Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

विशेषानुपपत्तिशङ्कापरिहारौ

§123Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
नन्वेवं विशेषोऽपि नोपपद्यते । विकल्पदोषात् । तथाहि । धर्मधर्मिणोर्विशेषो यदि धर्मधर्मिभ्यां भिन्नस्तर्हि भेद एवास्तु किमन्तर्गडुना विशेषेण । यद्यभिन्नस्तर्हि धर्मधर्मिणावेव स्तो न विशेषः । तथा च धर्मधर्मिभावोऽपि न स्यादिति चेन्मैवम् । अभिन्नत्वेऽपि विशेषस्य तन्मात्रत्वाभावेन दोषाभावात् । विशेषस्य विशेषित्वे विशेषानवस्था स्यादिति चेत् 'वस्त्वन्तरत्वाभावेनादोषत्वादिति । स्यादेतत् । भेदविशेषयोरनित्यत्वे नानित्यघटादिस्वरूपत्वम् । अनित्यत्वे चोत्तरकालं निर्विशेषाभेदापत्तिरिति चेन्मैवम् । अनित्यगतस्यानित्यत्वेऽप्युत्तरकालं वस्तुन एवाभावेन निर्विशेषाभिन्नवस्त्ववशेषप्रसङ्गाभावात् । नित्यगतस्य नित्यत्वेन सर्वाभेदप्रसङ्गस्यात्यन्तमयुक्तत्वाच्च । तस्माज्जडजीवेश्वराणां मिथः स्वाभाविक एव पञ्चविधो भेदः । तथा हि श्रुतिः -- 'जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा । मिथश्च जडभेदोऽयं प्रपञ्चो भेदपञ्चकः ॥ सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् । न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः ॥ कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते । द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम्' इत्यादिः ॥

Loading…