Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

पराभिमताविद्यानिराकरणम्

§122Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
यत्त्वनिर्वाच्याविद्यासामर्थ्यादेव सर्वलौकिकवैदिकव्यवहारोपपत्तौ किं विशेषेणेति । तत्तुच्छम् । अविद्याया विषयनिरपेक्षत्वे विज्ञानवादप्रसङ्गात् । तत्सापेक्षत्वे च तत्स्वभावभूतयोरभेदधर्मत्वयोर्विरोधध्रौव्यात् । अभेद एव स्वाभाविको धर्मत्वं तु मिथ्यैवेति चेत् तर्हि तत्प्रतिपादकश्रुतीनाम् अतत्त्वावेदकत्वादप्रामाण्यप्रसङ्गः । परमार्थतो निर्विशेषचैतन्यस्वरूपमात्रे सर्वश्रुतीनां तात्पर्यान्नायं दोष इति चेन्न । दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् । प्रतीतविशेषपरित्यागेनाप्रतीतनिर्विशेषस्वीकारात् । शब्दतो निर्विशेषानुभवस्यादृष्टत्वाच्च । न च सोऽयमित्यादौ तत्तेदन्ताविशिष्टयोरभेदान्वयबाधेन स्वरूपमात्रबोधो दृष्ट एवेति वाच्यम् । तत्राप्यतीतसम्बन्धरूपतत्तोपलक्षितस्य तत्कालसम्बन्धध्वंसरूपतत्ताविशिष्टस्य वा वर्तमानकालसम्बन्धरूपेदन्त्वविशिष्टेनाभेदान्वयात् ॥ किञ्चाद्वैतवादे तावदविद्यैव नोपपद्यते । विकल्पदोषात् । सत्यत्वे द्वैतप्रसङ्गात् । मिथ्यात्वे कल्पकाभावः । स्वकल्पितत्वे आत्माश्रयात् । अविद्यान्तरकल्पितत्वे चानवस्था । तथा च कुतो धर्मत्वादेर्मिथ्यात्वपरिकल्पनावकाशः । नन्वेवमनुपपन्नत्वं मिथ्यात्वे साधकमेव । उपपन्नत्वे हि सत्यत्वं स्यादिति चेत् तर्हि लाघवादात्मैवाविद्येति कल्प्यताम् । आत्मनोऽविद्यात्वमविद्यानिवृत्तावात्मनिवृत्त्यापत्त्याऽनुपपन्नमिति चेदत एव मिथ्येत्यस्य सुवचत्वात् । आत्मनोऽविद्यात्वमप्रामाणिकमिति चेत्तद्धर्मस्याविद्यात्वे किं प्रमाणमुपलब्धमायुष्मता प्रतीतप्रमाणानां निरस्तत्वादिति दिक् ॥

Loading…