Join Tattvasudhā to ask questions, track your progress, and take parīkṣā.Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full
विशेषस्य प्रामाणिकत्वसमर्थनम्
§121Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् । ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
अथ वस्तुस्वरूप एव विशेषसद्भावे किं मानमिति चेदिदं तावत् स्वरूपस्य वस्त्वभिन्नत्वेऽपि वस्तुनः स्वरूपमिति सम्बन्धानुभवादेव स्वरूपस्य वस्तुतो विशेषसिद्धिः । एवं 'यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति', 'एकधैवानुद्रष्टव्यं', 'नेह नानास्ति' इत्यादिश्रुतिभिः ब्रह्मणस्तद्धर्माणां चाभेदः सिद्धः । दृश्यते च 'सत्यं ज्ञानमनन्तं ब्रह्म', 'आनन्दं ब्रह्मणो विद्वान्' इत्यादौ विशेष्यविशेषणभावादिना व्यवहारः । तदुभयविरोधादर्थादाक्षिप्यते विशेषः । एवं घटतद्धर्माणामपि पृथगनुपलम्भेनैकत्वे सिद्धे धर्मधर्मिभावादेर्विशेष एव शरणमिति ॥