Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदेऽनुमानागमसमर्थनम्

§120Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
एवमनुमाने धर्मिसत्तासमानसत्ताकत्वेन भेदविशेषणादुद्देश्यसिद्धिः । न चाप्रयोजकत्वम् । विपक्षे चैत्रादेर्मैत्रादिदुःखानुसन्धानापत्तेर्बाधकत्वात् । चैत्रमैत्रयोरैक्याच्चैत्रचैतन्यस्य मैत्रीयदुःखायनुसन्धानमिष्टमेवेति वाच्यम् । मैत्रशरीरोत्पन्नदुःखादेश्चैत्रशरीरेऽनुसन्धानस्यानिष्टत्वात् । न च तत्तच्छरीरगतान्तःकरणभेदादनुसन्धानाभाव इति वाच्यम् । योगिन्यनुपपत्तेरुक्तत्वात् ॥ अत एवाऽगमोऽपि स्वाभाविकभेदमेव ग्राहयति । अत्त्यनश्नन् इत्युक्ताशनानशनयोः स्वाभाविकभेदेन विनाऽनुपपत्तेः । मुक्तौ भेदश्रुतीनामुदाहृतत्वाच्च । न च भेदस्य वस्तुस्वरूपत्वाङ्गीकारात् स्वरूपस्य च स्वाभाविकत्वे विवादाभावादर्थान्तरमिति वाच्यम् । यतो न भेदो वस्तुस्वरूपमात्रम् । धर्मधर्मिभावाद्यनुपपत्तेः । किन्तु तद्विशेष इत्युक्तम् । तथा च धर्मत्वपरप्रतियोगिकत्वादिविशेषितवस्तुस्वरूपविशेषस्य साध्यत्वान्न दोषः ॥

Loading…