Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदे प्रत्यक्षसमर्थनम्

§119Mūla
घटादिपदार्थानामेव पक्षत्वे तु स्वान्तर्भेदहीनशब्देन स्वप्रतियोगिकभेदाभावेऽभिमते सिद्धसाधनम् । भेदमात्राभावसाधने तु साध्यविकलो दृष्टान्तः । आकाशभेदसाधनं त्वस्माभिरन्यत्र कृतम् ग्रन्थगौरवभयान्नेह तन्यते । तस्मान्नात्माभेदेऽनुमानं प्रमाणम् ॥
यदपि प्रतियोगित्वांशे सन्निकर्षाभावात् प्रतियोगिविशेषितभेदप्रत्यक्षानुपपत्तिरिति । तदतिमन्दम् । निर्विकल्पकोपस्थितेरेव सन्निकर्षत्वसम्भवात् । तस्याश्च भेदज्ञानानपेक्षत्वेनान्योन्याश्रयानवकाशात् । प्रतियोगित्वस्य प्रतियोगिस्वरूपत्वेन तदुपस्थितेस्तत्सन्निकर्षत्वसम्भवाच्च ॥

Loading…