Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

अभेदे श्रुतिप्रमाणोदाहरणम्

§31Mūla
श्रुतयस्तु नेह नानाऽस्तीत्याद्या अभेदबोधिकाः । तस्मान्न स्वभावतो विष्णोर्विश्वभिन्नत्वमिति पूर्वपक्षसङ्क्षेपः ।
एवमभेदे प्रत्यक्षानुमाने उपपाद्यागममप्याह– श्रुतयस्त्विति ॥ 'नेह नानास्ति किञ्चन', 'एकमेवाद्वितीयम्' इत्यादिश्रुतीनां निषेधपरतायाः प्रागुक्तत्वात्तत एव प्राबल्याद्भेदश्रुतिबाधकत्वं सेत्स्यतीत्यभिप्रायेण तन्नोपपादितम् । पूर्वपक्षमुपसंहरति– तस्मादिति ॥ उक्तरीत्या परपक्षे साधकस्य बाधकाभावस्य चाभावात् स्वपक्षे तद्भावाच्चेत्यर्थः । पूर्वपक्षसङ्क्षेप इत्यनेन निरसनीययुक्त्यन्तरसत्त्वं सूचितम् । तच्चाद्वैतश्रुतीनाम् उपक्रमादिषड्विधतात्पर्यलिङ्गयुक्तत्वादिरूपमुपरिष्टात् प्रपञ्चयिष्यामः ।

Loading…