Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सर्वाभेदसाधकानुमाने साध्यवैकल्यशङ्का तत्परिहारश्च

§30Mūla
ननु यदि विद्यमान एव भेदो घटादिभिर्नाभिव्यज्यते चेत्तर्युत्पद्यत इति वक्तव्यम् । तच्चायुक्तम् । भेदस्यौत्पत्तिकत्वेनानागन्तुकत्वादिति चेत्, तर्हि दोषद्वयपरिहारायाविद्यमानमेव भेदं घटादिः प्रतिभासयतीत्यस्तु । एवं चेद्वयं चरितार्थाः ।
भेदस्यौपाधिकत्वपक्षेऽनुपपत्तेः स्वाभाविकत्वसिद्धिरित्याशङ्कते – ननु यदीतिऔत्पत्तिकत्वेन यावदाश्रयप्रतीतिभावित्वसिद्धान्तेन । अनागन्तुकत्वात् । उपाधिजन्यत्वायोगादित्यर्थः । यद्युक्तानुपपत्त्या भेदस्यौपाधिकत्वासिद्धिस्तर्हि तत... एव स्वाभाविकत्वस्याप्यसिद्धौ मिथ्यात्वमेव सिद्ध्यतीत्याह– तर्हीतिदोषद्वयपरिहारायेति ॥ अतिप्रसङ्गापसिद्धान्तरूपदोषद्वयपरिहारायेत्यर्थः । ततः किमित्यत आह– एवं चेदिति ॥ यद्याकाशभेदस्य मिथ्यात्वं तर्हीत्यर्थः । चरितार्थाः सिद्धस्वपक्षाः । प्रागुक्तानुमानस्य दृष्टान्ते साध्यवैकल्याद्यभावेन स्वान्तर्भेदहीनत्वरूपसाध्यसाधकत्वसम्भवादिति भावः ॥

Loading…