Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सर्वाभेदसाधकानुमाने साध्यवैकल्यशङ्का तत्परिहारश्च

§30Mūla
संयोगस्य स्वात्यन्ताभावसमानाधिकरणत्वं च प्रमाणबलादङ्गीक्रियते । प्रमाणमेव विरोधं शमयिष्यति । 'संविदेव हि भगवती विषयसत्त्वोपगमे नः शरणम्' इति न्यायादिति ।
नन्वेवमाकाशे घटादिसंयोगस्याव्याप्यवृत्तित्वं न स्यात् । तस्य स्वात्यन्ताभावसमानाधिकरणत्वरूपस्य प्रदेशभेदनिर्वाह्यत्वादित्यत आह– संयोगस्येतिप्रमाणबलादिति ॥ इह घटसंयोगो, नेहेति प्रतीतिबलाद् घटगगनसंयोगः स्वाधिकरणयावन्निष्ठाभावप्रतियोगी संयोगत्वात् । वृक्षवानरसंयोगवदित्यनुमानबलाच्चेत्यर्थः । एवमुपाधिर्गगनमात्रं स्पृशतीत्याद्यपक्षाङ्गीकारेण समाधाय गगनैकदेशमिति द्वितीयपक्षाङ्गीकारेण तद्विवरणमेव स्वात्यन्ताभावेत्यादिना कृतमिति तूपचिन्त्यम् । गगनावयवसम्बन्धित्वरूपमुख्यार्थाभिप्रायेण गगनैकदेशं स्पृशतीति विकल्पितत्वात् निरुक्तगौणार्थाङ्गीकारमात्रेण तत्पक्षाङ्गीकारायोगात् । प्रथमपक्षेऽप्येतदङ्गीकारेणैतस्य पक्षान्तरत्वासम्भवाच्च । नन्वेवं सति यो यत्प्रतियोगी स तद्विरोधीति सामान्यतः प्रतियोग्यभावयोर्विरोधग्राहकमानविरोध इत्यत आह – प्रमाणमेवेति ॥ विरोधं शमयिष्यति तद्ग्रहं निवर्तयतीत्यर्थः । विशेषप्रमाणेन सामान्यव्याप्तेराभासीकरणादिति भावः । इममेव वृद्धसम्मत्या द्रढयति– संविदेव हीतिभगवतीत्यबाधितत्वेनादरणीयत्वमाह । शरणं हेतुः ।

Loading…