Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सर्वाभेदसाधकानुमाने साध्यवैकल्यशङ्का तत्परिहारश्च

§30Mūla
नन्वथाऽपि घटाद्युपाधिः किं गगनमात्रं स्पृशति उत गगनैकदेशम् । नाद्यः सर्वोऽपि घटाकाशः स्यात् । द्वितीये स्वाभाविकांशासिद्धिरिति चेन्न । सर्वोऽप्याकाशो घटाकाशः स्यादिति कोऽर्थः । किं घटसम्बन्धी स्यादिति उत घटपरि... ...माणसमानपरिमाणः स्यादिति, सर्वोऽपिमहाकाशो घटाकाशः स्यादिति वा । नाद्यः । इष्टापत्तेः । न द्वितीयः । उपाधेः प्रतिबिम्बपक्षपातित्वस्वाभाव्येन घटस्योपाधेः प्रतिबिम्बस्थानीयाकाशे स्वगतपरिमाणप्रतीत्याधानात् । महाकाशं तु बिम्बस्थानीयमिति न तत्र स्वधर्मोपरञ्जकः । अत एव न तृतीयः । उपरञ्जितघटधर्मत्वस्य घटाकाशपदप्रवृत्तिनिमित्तस्य परिच्छिन्नाकाश इव महाकाशेऽभावात् तत्र तदव्यवहारात् ।
स्यादेतत् । घटादेर्घटाकाशादिव्यवहारहेतुत्वान्यथानुपपत्त्यैवाकाशभेदः सेत्स्यति । तथाहि– आकाशसम्बद्धस्य सर्वाकाशसम्बद्धस्य वा घटादेर्घटाकाशादिव्यवहारहेतुत्वे सर्वाकाशस्य घटाकाशत्वापत्तेरेकदेशसम्बद्धस्यैव तथात्वं वाच्यम् । एकदेशस्यौपाधिकत्वे चैवमेवानवस्थानात् स्वाभाविकत्वस्यैव वाच्यतया तन्निर्वाहकस्वाभाविकभेदसिद्धिरित्याशङ्कते– नन्वितिअथापि उक्तप्रतीत्या भेदसिद्ध्यनङ्गीकारेऽपि । उपाधिर्घटाकाशादिव्यवहारहेतुः । गगनमात्रं स्पृशतीत्यस्य किमखिलं गगनं स्पृशतीत्यर्थः, किं वा निखिलावयवेषु गगनमित्युत निखिलोपाध्यवच्छेदेन गगनमित्या... होस्विदुपाध्यनवच्छिन्नं गगनमिति ? नाद्यः । गगनस्यैकत्वात् । न द्वितीयः । निरवयवत्वात् । न तृतीयः । अनुभवविरोधात् । चतुर्थस्तावदङ्गीक्रियते । तत्र च नोक्तदोष इत्याह– नेतिघटपरिमाणसमानपरिमाणः स्यादिति ॥ तादृशपरिमाणावत्त्वेन व्यवहर्तव्यः स्यादित्यर्थः । उपाधेः स्वोपहिते स्वधर्मव्यवहारहेतुत्वादिति भावः । महाकाशो घटाकाशः स्यादिति ॥ उपाध्यनवच्छिन्नोऽपि घटाकाशत्वेन व्यवहर्तव्यः स्यादित्यर्थः । व्यवहारनिमित्तस्योपाधिसम्बन्धस्य महाकाश एव प्राप्तेरिति भावः । ननु बिम्बप्रतिबिम्बभावस्थले ह्युपाधेः प्रतिबिम्बपक्षपातित्वम् । दर्पणादिना प्रतिमुख एव स्वगतमालिन्याधानदर्शनात् । प्रकृते च तदभावात् महाकाशेऽपि घटपरिमाणाधानापत्तिरित्याशङ्क्योक्तम्– प्रतिबिम्बस्थानीयेति ॥ उपाधेः कल्पितभागमात्रपक्षपातित्वस्वाभाव्यादिति भावः । अत एवेति ॥ घटायुपाधेः स्वोपहित एव स्वधर्माधायकत्वादित्यर्थः । एतदेव विवृणोति – उपरञ्जितेति ॥ तथाच तत्पदप्रवृत्तिनिमित्ताभावादेव तद्व्यवहारः इति भावः ॥

Loading…