Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

सर्वाभेदसाधकानुमाने साध्यवैकल्यशङ्का तत्परिहारश्च

§30Mūla
ननु कथं मानाभावः ? इह पक्षी नेह पक्षीति प्रतीतिरेव मानमिति चेन्न । आलोकमण्डलविषयत्वात्तस्याः । इहाऽलोक इत्यत्रालोकावयवानामिहेति निर्देशात् । नेहाऽलोक इत्यत्र गगनस्य निर्देशात् । इहाऽलोक इति प्रतीतिरिह गगनमिति प्रतीतिवदौपचारिकी वा ।
मानमित्यस्याकाशभेद इत्यादिः । यद्यपीह पक्षी, नेह पक्षीति प्रतीतेः पक्षितदभावयोराकाशवृत्तित्वावगाहितया नाकाशभेदे मानत्वम् । तथापि तादृशप्रतीतिर्विभिन्नदेशवृत्तित्वविषया, विरुद्धधर्मविषयत्वात् इह घटत्वं नेह घटत्वमिति प्रतीतिवदित्यनुमानोत्थापकतया मानत्वं बोध्यम् । वस्तुतः पक्ष्यभावस्य पक्षिमद्देशभेदसमनियततया तदभिन्नत्वान्नदवगाहिप्रतीतेस्तत्र मानत्वमित्यवधेयम् ॥ अत्र यद्यपि अविद्यमानमेवाकाशभेदमालोकाद्युपाधिर्भासयतीति वक्तुं शक्यम् । तथापि लाघवमनुसृत्याह– आलोकेति । नन्वेवमपीहाऽलोको नेहाऽलोक इति प्रतीतिरेव मानान्तरमास्ताम् । स्वस्य स्वाधारत्वानुपपत्त्या तस्याः पूर्ववदालोकमण्डलविषयत्वासम्भवादित्यत आह– इहाऽलोक इति । गगनस्यालोकाधारत्वाभावेन तद्विषयत्वासम्भवादिति भावः । गगनस्येति । आलोकावयवानाम् आलोकाभावाधारत्वासम्भवेन तद्विषयत्वायोगादिति भावः । नन्वेवमिहाऽलोक इति संयोगसंसर्गावगाहिप्रत्ययो न स्यात् । अवयवावयविनोस्तदभावात् । न च गगनस्यैव तद्विषयत्वम् । गगनालोकयोः संयोगसत्त्वेऽपि संयोगेनाधाराधेयभावाभावादत आह– औपचारिकी वेति ॥ गगनसम्बन्धित्वरूपैहशब्दगौणार्थविषयिणीत्यर्थः । प्रयोजनाभावे कथमौपचारिकप्रयोग इत्यत उक्तम्– इह गगनमिति ॥ प्रतीतिवदिति ॥ यथा तत्रेददित्यर्थ इहेति प्रयोगो रूढोपचारत्वान्न प्रयोजनविशेषमपेक्षते तथेहापीत्यर्थः । यद्वा, नन्ववयवावयविनोराधाराधेयभावव्यवहारोऽनुभवविरुद्धः । कपाले घट इत्यादिप्रतीतेरसिद्धेः । अतः कथमालोकावयवानामिहेति निर्देश इत्यत आह– औपचारिकी वेति ॥ अस्याप्ययमालोक इत्येवार्थ इति भावः ।

Loading…