सर्वाभेदसाधकानुमाने साध्यवैकल्यशङ्का तत्परिहारश्च
§30Mūla
ननु घटमठाद्याकाशानामन्योन्यं पारमार्थिकभेदाङ्गीकारात् साध्यविकलो दृष्टान्त इति चेन्न । तेषां स्वभावतो भिन्नत्वे घटादिसम्बन्धात्प्रागपि भेदप्रतीतिप्रसङ्गात् । घटग्रहणे दीपादीनामिव घटादीनां व्यञ्जकत्वाददोष इति चेन्न । दीपादिव्यञ्जकाभावेऽपि कदाचित्स्पार्शनेन घटप्रतीतिदर्शनात् । कुङ्कुमगन्धस्य घृतमिवैतद्व्यञ्जकम् । तथा च घटाभावे भेदो न प्रतीयते इति चेन्न । तत्र पृथिवीत्वेन गन्धसिद्धेः, अनुद्भूतगन्धाङ्गीकारे गौरवात् घृतमभिव्यञ्जकमङ्गीक्रियते । न चैवं प्रकृते । आकाशभेदे मानाभावात् ।