सर्वाभेदसाधकानुमानविवरणम्
§29Mūla
अपि च । विमतं तात्विकस्वान्तर्भेदहीनं मतत्वतः । यदित्थं तत्तथा यद्वत्खं तथेदं ततस्तथा ॥ यथा गगनम् अन्योन्यं पारमार्थिकभेदशून्यैर्घटमठाद्याकाशैः परमार्थतो न भिद्यते । तथा जगदाख्यः पदार्थोऽप्यन्योन्यं तात्विकभेदशून्यैःएकदेशैर्घटादिभिः परमार्थतो न भिद्यत इति ॥