Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदमिथ्यात्वानुमाने साध्यवैकल्यशङ्का तत्परिहारश्च

§28Mūla
ननु तर्हि शुक्तिकायां रजताभेदारोपमात्रेणेदं रजतमिति प्रतीत्युपपत्तौ रजतारोपाङ्गीकारो व्यर्थ इति चेन्न । तत्राधिष्ठानस्यारजतत्वेन रजतोपस्थित्यर्थं रजतारोपाङ्गीकारात् । रजतानुपस्थितौ रजताभेदारोपासम्भवाच्च । नचैवं प्रकृते । अधिष्ठानस्य चन्द्रत्वात् ।
अत्र प्रतिबन्दीमाशङ्कते– नन्विति ॥ यद्यपि रजतारोपापेक्षया विषयताधिक्येन रजताभेदारोप एव गौरवान्नैतत्प्रतिबन्द्यवकाशः । न च धर्मिकल्पनातो धर्मकल्पना लघीयसीति शङ्क्यम् । धर्मिघटितधर्मकल्पनायाः लघुत्वायोगात् । तथापि रजताभेदस्य रजतत्वरूपत्वेन तद्विशिष्टारोपात् तदारोपे लाघवमित्यभिप्रायः ॥ रजतत्वस्य च न स्वरूपेणारोप्यत्वम् । मिथ्यैव रजतं प्रत्यभादित्यनुस्मृतिविरोधात् । रजताभेदत्वेनारोपे च रजतारोपस्यावश्यकतेत्याह – तत्रेत्यादिना रजताभेदारोपाङ्गीकारेऽपि तत्कारणीभूतप्रतियोग्युपस्थित्यर्थं रजतारोपोऽवश्यमङ्गीकार्यः । न चैवं चन्द्रान्तरारोपस्याप्यावश्यकता । अधिष्ठानभूतचन्द्रप्रतीतेरेव प्रतियोगिज्ञानत्वात् । न चैवमिहाप्यापणस्थरजतोपस्थित्यैव निर्वाहः । तथा सति तदभेदस्यैवारोप्यत्वापत्त्या दर्शितानुस्मृतिविरोधात् । तथा चावश्यकरजतारोपेणैवोपपत्तौ तदभेदारोपाङ्गीकारे वैयर्थ्यं गौरवं चेत्याशयः ॥

Loading…