Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदमिथ्यात्वानुमाने साध्यवैकल्यशङ्का तत्परिहारश्च

§28Mūla
भेदारोपमात्रेण द्वित्वप्रतीत्युपपत्तौ चन्द्रान्तरस्यारोपाङ्गीकारे गौरवात् ।
स्यादेतत् । परमते चन्द्रभेदस्य पारमार्थिकत्वाद्दृष्टान्तस्य साध्यवैकल्यम् । न चैवं चन्द्रभेदप्रतीतेः प्रमात्वप्रसङ्गः । चन्द्रभिन्नत्वेन भासमानचन्द्रस्यारोपितत्वेन विशिष्टविषयबाधात् । चन्द्रभेदस्यैवारोपितत्वे चन्द्रद्वित्वप्रतीतेरनुपपत्तेः । तस्या विभिन्नवस्तुविषयकबुद्धिसापेक्षत्वादित्याशङ्कते– नन्विति ॥ सत्यत्वेनेति ॥ अन्यथाऽरोपितानारोपितयोरैक्यप्रसङ्ग इति भावः । द्वित्वप्रतीतिं प्रति न वस्तुतो विभिन्नवस्तुविषयकबुद्धिर्हेतुः । दूरस्थवृक्षयोर्भेदाग्रहेऽपि द्वित्वप्रतीत्यापत्तेः । अपि तु भेदग्रह एवेति चन्द्रे चन्द्रभेदारोपाङ्गीकारे नानुषपत्तिः । नच चन्द्रान्तरस्यारोपाङ्गीकारेऽपि बाधकाभावः । चन्द्रश्चन्द्रभिन्न इत्यादौ चन्द्रभेदस्यैव साक्षाद्धर्मिविशेषणत्वापेक्षया तादात्म्येन चन्द्रभिन्नस्य तथात्वे विषयताधिक्येन गौरवादित्याशयेन समाधत्ते– चन्द्रभेदारोपमात्रेणेति ॥

Loading…