Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

भेदमिथ्यात्वसाधकानुमाने हेतुविचारः

§27Mūla
प्रतीतिसम्बन्धित्वम् । 'सम्बन्धश्च स्वरूपमेवेत्यत्र प्रामाणिकत्वानपेक्षणात् ।
प्रामाणिकेति ॥ सिद्धान्ते सदसतसाधारणभेदत्वधर्मस्याप्रसिद्धत्वेनेत्यर्थः । असिद्धो हेतुरिति ॥ उभयानुगतभेदत्वस्य हेतुत्वे हेत्वप्रसिद्धिः । सन्मात्रवृत्तिभेदत्वस्य हेतुत्वे दृष्टान्तासिद्धिः । दृष्टान्तवृत्तिभेदभ्रमविषयत्वरूपभेदत्वस्य हेतुत्वे च स्वरूपासिद्धिरित्यर्थः । ननु प्रतीयमानत्वं हि प्रतीतिकर्मत्वम् । तस्य च प्रतीतिजन्यफलाश्रयत्वरूपस्य न सदसतसाधारण्यमत आह– प्रतीतिविषयत्वमिति ॥ एतदेव प्रतीतिकर्मत्वं, न तूक्तरूपम् । ज्ञाततारूपफलस्य निरस्तत्वेनासम्भवादिति भावः । ननु प्रतीतिजनकसन्निकर्षादिमत्त्वरूपं तद्विषयत्वमपि न सदसतसाधारणमित्याशङ्क्याह– तच्चेति ॥ ननु सम्बन्धस्य सम्बन्धिसत्तासापेक्षत्वात् कथमसतश्चन्द्रभेदादेः प्रतीतिसम्बन्धित्वमत आह – सम्बन्धश्चेति स्यादेवं यद्यन्यः सम्बन्धः स्यात् । अयं तु प्रतीतेः स्वरूपमेव । तस्य तु विषयसत्तानिरपेक्षत्वान्न दोष इति भावः ।

Loading…