Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

प्रत्यक्षस्य प्रथमप्रतिक्षेप्यत्वसमर्थनम्

§2Mūla
ननु कथं विष्णवाख्यस्य परब्रह्मणः स्वभावतश्चेतनाचेतनात्मकविश्वभिन्नत्वम् । भेदे प्रमाणाभावात् । तथा हि– न तावज्जीवेश्वरभेदे प्रत्यक्षं सम्भवति । ईश्वरधर्मिकस्येश्वरप्रतियोगिकस्य वा भेदस्येश्वराप्रत्यक्षत्वेनाप्रत्यक्षत्वात् ॥
अत्राद्वैतवादी शङ्कते– नन्विति । परब्रह्मण इत्यनेन भेदाङ्गीकारे वस्त्वपरिच्छेदरूपपरब्रह्मत्वानुपपत्तिं सूचयति । चेतनाचेतने जीवजडे । स्वभावत इत्यस्य भेद इत्यनेनापि सम्बन्धः । अत्रेश्वरधर्मिकभेदस्यैव प्रकृतत्वेऽपि विश्वशब्दसूचितजीवजडभेदस्यापि... सङ्ग्रहाय भेदमात्रग्रहणम् । प्रमाणाभावादिति ॥ उक्तप्रमाणस्याभासत्वादित्याभिमानः । तदेवोपपादयति– तथाहीत्यादिना सङ्क्षेप इत्यन्तेन । न तावदिति ॥ नन्विदमसङ्गतम् । स्वातन्त्र्यादिरूपविरुद्धधर्महेतुकानुमानस्यैवाद्यपद्योक्ततया तत्प्रतिक्षेपस्यैव कर्तव्यत्वात् । मैवम् । तत्र प्रमुखपदेन भेदग्राहिप्रत्यक्षागमविषयत्वस्यापि विवक्षितत्वेन प्रमाणत्रयस्यैव लाभात् । स्वभावतः प्रत्यक्षागमयोः प्राबल्येऽपि प्रकृते प्रत्यक्षस्येश्वरीयस्य साध्यतया सविवादत्वादागमस्य चोपपत्तिसापेक्षत्वादनुमानस्यैव प्राधान्येन परिग्रहात्, स्वभावप्राबल्यमेव पुरस्कृत्य प्रत्यक्षस्य प्रथमं प्रतिक्षेपात् । अत एव सिद्धान्तेऽपि प्रत्यक्षादिप्रमाणत्रयं प्रदर्शयिष्यते । जीवेश्वरभेद इति ॥ आत्मधर्मिकात्मान्तरप्रतियोगिकभेद इत्यर्थः । ईश्वरधर्मिकजीवभेदे जीवधर्मिकेश्वरभेदे मिथो जीवभेदे चेति यावत् । अत एव सामान्यत आत्मनानात्वसाधकानुमाननिराकरणसङ्गतिः । ईश्वरेत्यात्मान्तरोपलक्षणम् ॥

Loading…