Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

द्रव्यत्वसाक्षाद्व्याप्यत्वपरिष्कारः

§48Mūla
अपि च पृथिवीत्वं जलत्व-तेजस्त्व-वायुत्व-मनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम् । जातित्वात् प्रमेयत्वाद्वा जलत्ववत् ॥
द्रव्यत्वसाक्षाद्व्याप्यत्वं च द्रव्यत्वव्याप्यजात्यव्याप्यत्वे सति द्रव्यत्वव्याप्यत्वम् । घटत्वादिवारणाय सत्यन्तम् । द्रव्यत्वव्याप्यभूतत्वादिव्याप्यस्य पृथिवीत्वादेः सङ्ग्रहाय तत्र जातिपदम् । गुणत्वादिवारणाय विशेष्यदलम् ॥ अथ व्याप्यत्वस्य तदभाववदवृत्तित्वरूपत्वेन द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वसम्भवात्तद्भेदमादाय सिद्धसाधनम् । यत्तु द्रव्यत्वस्य द्रव्यत्वव्याप्यद्रव्यत्वरूपजातिव्याप्यतया न द्रव्यत्वसाक्षाद्व्याप्यत्वमिति । तन्न । तथा सति पृथिवीत्वादेरपि द्रव्यत्वव्याप्यद्रव्यत्वरूपजातिव्याप्यतया द्रव्यत्वसाक्षाद्व्याप्यजात्यसिद्ध्यापत्तेः । द्रव्यत्वव्याप्यद्रव्यत्वभिन्नजात्यव्याप्यत्वविवक्षणे तु द्रव्यत्वस्यापि द्रव्यत्वसाक्षाद्व्याप्यत्वाक्षतेः । एवं द्रव्यत्वव्याप्यजात्यव्याप्यत्वस्य द्रव्यत्वव्याप्यजात्यभाववद्वृत्तित्वरूपतया पृथिवीत्वादेरसङ्ग्रहः । पृथिव्यां द्रव्यत्वव्याप्यजातिसत्त्वेन तदभावासम्भवात् । द्रव्यत्वव्याप्ययत्किञ्चिज्जात्यभाववद्वृत्तित्वविवक्षणे च घटत्वादेरपि सङ्ग्रहप्रसङ्ग इति चेन्मैवम् । न्यूनवृत्तित्वरूपव्याप्यत्वस्य विवक्षितत्वात् । न्यूनवृत्तित्वं च तत्समानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सति तत्समानाधिकरणत्वम् । सत्तागुणत्वयोः द्रव्यत्वव्याप्यत्ववारणाय सत्यन्तविशेष्यभागयोः प्रवेशः । द्रव्यत्वस्य च द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वाभावान्न द्रव्यत्वव्याप्यत्वम् ॥ द्रव्यत्वव्याप्यजात्यव्याप्यत्वशरीरे च द्रव्यत्वव्याप्यत्वं द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वमात्रम् । अधिकस्य वैयर्थ्यात् । तदव्याप्यत्वं च तत्समानाधिकरणत्वे सति तत्समानाधिकरणभेदप्रतियोगितावच्छेदकं यत्तदन्यत्वम् । स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वस्वसमानाधिकरणत्वोभयसम्बन्धेन तादृशजातिविशिष्टान्यत्वमिति यावत् । पृथिवीत्वादेर्द्रव्यत्वव्याप्यजलत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वात् तथाविधघटत्वादिसमानाधिकरणत्वाच्चासङ्ग्रहापत्तिरतो दलद्वयनिवेशः । इत्थं च द्रव्यत्वव्याप्यं पृथिवीत्वादि । तद्व्याप्यं घटत्वादि । तदन्यत्वं च पृथिवीत्वादेरिति तत्सङ्ग्रहः ॥

Loading…