Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

आत्मत्वजातिसाधकप्रथमानुमानेऽवशिष्टसाध्यघटकपदकृत्यम्

§49Mūla
अपि च पृथिवीत्वं जलत्व-तेजस्त्व-वायुत्व-मनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम् । जातित्वात् प्रमेयत्वाद्वा जलत्ववत् ॥
गगनावृत्तिविशेषगुणवत्त्वादिधर्मभेदमादाय सिद्धसाधनवारणाय जातिपदम् । यद्यपि तादृशजातिनिष्ठप्रतियोगिताकस्य पृथिवीत्वघटोभयभेदस्य पृथिवीत्वेऽपि सत्त्वात् सिद्धसाधनम् । तादृशजातित्वानधिकरणत्वसाधने च पृथिवीत्वस्यापि तादृशजातित्वाधिकरणत्वाद्बाधः । तथापि तादृशजातिप्रतियोगिकप्रतियोग्यवृत्तिभेदसाधनाददोषः । उभयभेदस्य प्रतियोगिवृत्तित्वात् ॥

Loading…