Join Tattvasudhā to study.
BhēdōjjīvanamArgument Map — Full

पृथिवीत्वपक्षकानुमाने हेतुविचारः

§50Mūla
अपि च पृथिवीत्वं जलत्व-तेजस्त्व-वायुत्व-मनस्त्वेतरद्रव्यत्वसाक्षाद्व्याप्यजातिभिन्नम् । जातित्वात् प्रमेयत्वाद्वा जलत्ववत् ॥
जातित्वं चाखण्डोपाधिः । अतो गुरुधर्मस्य हेतुतानवच्छेदकत्वे नित्यानेकसमवेतत्वस्य हेतुत्वासम्भवेऽपि न क्षतिः । आधेयत्वमात्रं वा हेतुत्वेन विवक्षितम् । प्रमेयत्वाद्वेत्यत्र प्रशब्दः प्रकृतसाधनस्य प्रामाणिकत्वद्योतनार्थः ॥

Loading…